________________
४४ ]
[ सन्निकर्षवादः
. सुवर्णभिन्नं यत्तेजस्तद्भिन्नद्रव्यचाक्षुषत्वावच्छिन्नं प्रत्येवोक्तालोकसंयोगस्य हेतुत्वमित्यन्ये । प्रभासंयोगत्वेनैव हेतुत्वं तु), प्रभात्वं तु जातिविशेष इति तु नव्याः । यद्यप्येवं बिडालादिचाक्षुषे व्यभिचारः, मानुषीयद्रव्यचाक्ष. पत्वावच्छिन्नं प्रति हेतुत्वोक्तावप्यञ्जनादिना तमसि पश्यतां चाक्षुषेव्यभिचारः । तथापि येषां न कदाप्यञ्जनादिना प्रत्यक्षं, तत्पुरुषीयद्रव्यचाक्षुषत्वावच्छिन्नं प्रत्येव निरूक्तालोकसंयोगस्य हेतुत्वम् , येषां तु कदाचिदञ्जनादिनापि प्रत्यक्षं तत्पु. रुषीयद्रव्यचाक्षुषे तत्पुरुषीयाञ्जनसंयोगाभावविशिष्टालोकसंयोगाभावाभावत्वेन हेतुत्वम् । बिडालादिचाक्षुषे तु बिडालादिचक्षःसंयोगत्वेनैवेति न दोष इति मथुरानाथप्रभृतयः ।।
अत्रालोकसंयोगाभावे तत्पुरुषीयाञ्जनसंयोगाभाववैशिष्ट्य स्वाश्रयचक्षुःसंयोगाधिकरणवृत्ति वसम्बन्धावच्छिन्नप्रतियोगिताकतत्पुरुषीयाञ्जनसंयोगाभावस्य विशेषणताविशेपरूपं ग्राह्य, तेन नाञ्जनसंयोगकाले प्यालोकसंयोगाभावे तदभावसत्वादतिप्रसङ्गः, न वा विनिगमनाविरहः । समवायसम्बन्धावच्छिन्नप्रतियोगिताकाञ्जनसंयोगाभावस्य स्वाश्रय
चक्षुःसंयोगाधिकरणवृत्तित्वसम्बन्धेन वैशिष्टयं तु प्रदेशान्तरे ' तत्सत्वेऽपि तदभावसत्त्वानिवेशनाऽनहम् । उक्तसम्बन्धाव: च्छिन्नतदभावस्तु नाऽव्याप्यवृत्तिरिति न तन्निवेशेऽप्येष दोष इति बोध्यम् ।।