________________
[ ४३ न्यायाचार्य मुनिपुङ्गव-श्रीमद्यशोविजयोपाध्यायकृतवादमालान्तर्गतः
* सन्निकर्षवादः * अथ सन्निकर्षः ॥ तत्र द्रव्यचाक्षुषे चक्षुःसंयोगो हेतुः, उद्भतरूपश्च तत्सहकारीति न चक्षःसंयुक्तपिशाचादेश्चाक्षषापत्तिः । उद्भतरूपस्य च संग्राहकत्वलाघवादात्मान्यद्रव्यप्रत्यक्षत्वं मूर्तप्रत्यक्षत्वं वा कार्यतावच्छेदकं, तेन वाय्वादेरप्रत्यक्षत्वमेव । द्रव्यसाक्षात्कारत्वावच्छिन्नं प्रति च महत्वत्वेन हेतुतेति परमाणोन साक्षात्कारः, न वा द्रव्यमानसजनकात्ममनःसंयोगसत्त्वात् मनसोऽपि मानसापत्तिः । मनःप्रतियोगिकविजातीयसंयोगस्य द्रव्यमानस हेतुत्वे तु गौरवमिति बोध्यम् ।
__ न च तमःस्थितघटादेरपि चाक्षुषप्रसङ्गः, तत्र तदा चक्षुःसंयोगस्य महत्त्वोद्भतरूपयोश्च सत्त्वात् , न च तदानीं चक्षुःसंयोगे मानाभावः, द्रव्यवृत्त्यभावचाक्षुषहेतुचक्षुःसंयुक्तविशेषणतानुराधेन तत्स्वीकारावश्यकत्वादिति वाच्यम् , महदुद्भूतानभिभूतरूपवदालोकसंयोगस्यापि द्रव्यचाक्षुषत्वावच्छिन्नं प्रति हेतुत्वात् । परमाणुरूपेण तप्तजलस्थेन सुवर्णरूपेण च तेजसा व्यभिचारवारणाय महदादिविशेषणानि । न चालोकचाक्षुष एव व्यभिचारस्तत्राप्यालोकगगनसंयोगसत्वात् ।