________________
४२ ]
[ वादमालायां किंच 'चैत्रस्य धनं न तु मैत्रस्य, मैत्रस्य धनं न तु चैत्रस्ये'त्यादौ एकस्वत्वापरस्वत्वाभावयोरेकधनविशेष्यकत्वानुभवान्न धनस्य प्रतियोगित्वोल्लेखोद्भावनेन स्वामित्वसम्बन्धेन तदभावकल्पनं युक्तम् । अधनोऽयमित्यादिव्यवहारेण स्वामित्वसम्बन्धावच्छिन्नाभावकल्पने चाऽनाथोऽयं भृत्य इत्यादिव्यवहारेण स्वत्वसम्बन्धावच्छिन्नाभावस्यापि कल्पनप्रसङ्गः, तथा च चैत्रस्य न धनमित्यत्र स्वामित्वसम्बन्धेन धनाभावश्चैत्रे, स्वत्वसम्बन्धेन चैत्राभावो वा धने भासत इति विनिगमनाविरहो दुरुद्धर एव । तस्मात्प्रागुक्तदिशा स्वत्वस्य षष्ठ्य र्थत्व एव सर्व सुन्दरम् ।
'पुत्रस्य न धने पितुद्वेष' इति प्रयोगवारणाय च विशिष्य नियमान्तरकल्पनं तु प्रमाणिकत्वाददुष्टम् । चैत्रो न पचतीत्यादेः' 'पाककृत्यभाववान् चैत्र' इत्यादिबोधवारणाय प्रत्ययार्थाभावप्रकारकबोधसामान्य एव प्रथमान्तपदजन्योपस्थितेहेतुत्वाच्चेति दिक।
इदं तु बोध्यं, सम्बन्धत्वस्याऽखण्डोपाधित्वे तदेवषष्ठयाः शक्यतावच्छेदकं, स्वत्वादौ तु लक्षण वेति । नव्यास्तु स्वत्वं स्वामित्वञ्चैक एव पदार्थः । स च विलक्षण विशेषणतयाऽत्र स्वत्वमिदं स्वमि'त्यादिव्यवहारकारी, विलक्षणविशेषणतया चाऽत्र स्वामित्वं पतित्वं वे'त्यादिव्यवहारकारी, तदुभयभेदेऽपि तयोरवश्यं पुरुषधननिष्ठविशेषणताभेदाभ्युपगमादित्याहुः ॥ संपूर्णः स्वत्ववादः ।