________________
स्वत्ववाद: ]
[४१ । तच्चिन्यम् , कारणत्वादेरिव स्वामित्वस्य निरूपकताया वृत्त्यनियामकत्वात् । 'घटे दण्डस्य कारणता न पटें' इत्यत्र दण्डनिष्ठकारणतायां घटनिरूपितत्व-पटनिरूपितत्वाभावप्रतीतिवदत्र चैत्रस्य स्वामित्वं नापरत्रे'त्यत्र चैत्रनिष्ठस्वामित्वे एतनिरूपितत्वापरनिरूपितत्वाभावप्रतीतिसम्भवात् । 'चैत्रस्य 'नधन मित्यादेः 'स्वामित्वसम्बन्धेन धनाभावश्चैत्रसम्बन्धी ति बोधाभ्युपगमे च 'दण्डस्य ने पट' इत्यादेरपि 'कारणत्वसम्ब"न्धेन पटोभावो दण्डसम्बन्धी'त्यादिबोधप्रसङ्गः । “दण्डस्य 'पट इत्यत्र कारणतासम्बन्धेन पटवत्ताज्ञानाऽभावाइण्डस्य 'न पट इत्यत्र तेन सम्बन्धेन तदभावावगाही बोधो न कल्प्यते" इति चेत् १ तर्हि चैत्रस्य धनमित्यत्रापि स्वामित्वसम्बन्धेन धनवत्ताज्ञानाभावाच्चैत्रस्य धनमित्यत्रापि न तेन तदभावावगाहियोधकल्पनं युक्तम् । . .
"चैत्रस्य धनमित्यत्र स्वामित्वसम्बन्धेन धनवत्त्वमेव चैत्रे प्रतीयते, स्वामित्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेयतया. शाब्दबोधे च षष्टयन्तपदजन्यपदार्थोपस्थितेहेतुत्वानियमतः षष्ठीप्रयोगस्तादृशनियमार्थमेव षष्टयनुशासनमिति
चैत्रस्य न धनमित्यत्र स्वामित्वसम्बन्धेन धनाभावावगाहित्वं कल्प्यत" इति चेत् ? तर्हि 'दण्डाद् घट' इत्यत्र कारणतासम्बन्धेन, घटवत्वज्ञान. एव पश्चमीप्रयोगस्तन्त्रमिति दण्डान पट इत्यत्र तेन तदभावप्रत्ययोऽपि दुर्वारः ।
AN
.