________________
४० ]
[ वादमालायां
तियोगितान्तरकल्पने गौरवमिति चेत् ? न, प्रतियोगितायाः धनादिस्वरूपायाः क्लृप्तत्वेन गौरवाभावाद्धनादेः प्रतियोगित्वोल्लेखिप्रतीतेगौरवस्य प्रमाणिकत्वाच्च । । - एतेन स्वामित्वादिसम्बन्धेन धनाद्यभावकल्पने तद्बुद्धौ धनादिमत्तानिश्चयत्वेन प्रतिबन्धकत्वान्तरकल्पने गौरवमित्यपास्तम् । स्वामित्वादेः प्रतियोगितानवच्छेदकत्वेऽपि विशेषाऽदर्शिनस्तादृशप्रतीतेस्तत्सम्बन्धेन तथा प्रतिवध्य-प्रतिवन्धकमावस्यापि क्लप्तत्वाच्च । स्वामित्वादिसम्बन्धेन ननोऽभावबोधनेऽनुयोगिपदे षष्टयादेर्नियामकत्वाञ्च नातिप्रसङ्गः ।
किश्च, नेदं चैत्रस्येत्यत्र स्वत्वाभावबोधोपगमे षष्ठ्यर्थस्वत्वाभावबोधम्प्रति प्रथमान्तपदजन्योपस्थितेर्नियामकत्वकल्पने 'पुत्रस्य न धने पितुर्दुष' इत्यादिवाक्यात्पुत्रस्वत्वाभाववद्धने पितुद्वेष इत्यन्वयबोधप्रसङ्गवारणं सम्भवति । स्वामित्वसम्बन्धेन धनाभावबोधोपगमे तु नेतद्वय - त्पत्तिकल्पनं, तत्र धने सप्तम्या निराकाँक्षत्वात् । सामान्यत एवाभावत्वावच्छिन्नविशेष्यतानिरूपितप्रतियोगित्वसम्बन्धा-- वच्छिन्नप्रकारतासम्बन्धेन नामपदसमभिव्यातनपदजन्यशाब्दबोधे प्रथमान्तपदजन्योपस्थितेः, प्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपितमुख्यविशेष्यतयैवाभावशाब्दबोधे तादृशनपदजन्योपस्थितेर्वा नियामकत्वेनानतिप्रसङ्गादन्यथा भूतले न घटेऽप्रीतिरित्यादेारणाऽसम्भवादिति लाघवमित्याहुः ।