________________
स्वत्ववादः
[ ३६
न्वयो, नअर्थे च स्वत्वनिरूपकत्वसंसर्गाभावे चैत्रस्येत्यस्यान्वय इत्यपि प्रत्युक्तम् , 'नात्र चैत्रस्य स्वामित्वं किन्तु मैत्रस्ये' त्यत्र चैत्रनिष्ठस्वामित्वाभाव-मैत्रनिष्ठस्वामित्वयोरेकवृत्तित्वोल्लेखाच्च । न च निरूपकत्वस्य वृत्तिनियामकत्वे 'धनं स्वामी ति बुद्धिः स्यादिति वाच्यम् , स्वामित्वप्रकारकबुद्धेरिष्टत्वात् । 'स्वामी'त्यभिलापजनिका बुद्धिः स्यादिति चेत्न, तादृशामिलापे स्वामिचैत्रादिगतस्वरूपसम्बन्धेन विशिष्टबुद्धेरेव हेतुत्वात् । अन्यथा कालिकसम्बन्धोऽपि वृत्तिनियामको न स्यात् । 'कालो गौरि'त्याद्यभिलापजनकबुद्धेस्ततोऽभावात् । तस्माद् यथा कालिकसम्बन्धेन विशिष्टबुद्ध रिदानी घट' इत्यादिरेवाभिलापस्तथा निरूपकतासम्बन्धेन स्वामित्वनिष्ठबुद्धेश्चैत्रस्य स्वामित्वमित्यादिरेवाभिलाप इति ।
किं च, चैत्रस्य न धनमि'त्यादौ 'स्वामित्वसम्बन्धेन धनाभावश्चैत्रसम्बन्धी'त्येव बोधः, धनस्य प्रतियोगित्वोल्लेखान्यथानुपपत्या वृत्त्यनियामकस्यापि स्वामित्वादेः सम्बन्धस्य प्रतियोगितावच्छेदकत्वाङ्गीकारात् । अत 'एवाऽधनोऽयं, धनशून्योऽयमपुत्रोऽयं 'पुत्ररहितोऽसावि'त्यादयो व्यवहाराः। न चात्र धनादिपदं तत्स्वामित्वपरं, मुख्य बाधकाभावात् । न च स्वा. मित्वादिसम्बन्धेन धनत्वाद्यवच्छिन्नप्रतियोगिताकाभावान्तरकल्पनमेव बाधकम् , धनादिस्वामित्वत्वाद्यवच्छिन्नाभावानतिरिक्तत्वात् । तथापि स्वामित्वसम्बन्धावच्छिन्नधनादिनिष्ठप्र