________________
३८ ]
[ वादमालायां
त्वमेवाभावधीविरोधि । अत एव प्रलय एव परमाणौ, उत्पत्तिकाल एव चावयविनि संयोगसम्बन्धावच्छिन्नगगनाद्यभावो नान्यदा । न च संयोगेन गगनकुण्डादेरवृत्तित्वं तेन तदभावस्वीकारं विना दुर्वचं, यत्सम्बन्धे यत्सम्बन्धावच्छिन्नाधारतायाँ वा यदधिकरणानुयोगिफत्व--यत्प्रतियोगिकत्वोमयाभावस्तेन तत्र तदवृत्तित्वमिति विशिष्यव निर्वचनात् । अत एव ज्ञानविषयत्वादिवद्विषयतासम्बन्धेन ज्ञानादिकमपि केवलान्वयि विषयतासम्बन्धावच्छिन्नज्ञानाद्यभावस्त्वलीकः, इति मतमाद्रियतं, तदाऽस्तु विनिगमकाभावात् स्वत्व- स्वामित्वोभयमेव षष्टयर्थः । तात्पर्यग्रहस्य नियामकत्वादेव च चैत्रस्य धनमित्यादौ नियमत उभयानवगमस्यान्यतरावगमस्य चोपपत्तेः।
इत्थं च निष्ठतया षष्ट्यर्थस्वामित्वान्वयतात्पर्य निरूपितत्वेनैव तत्र प्रकृत्यर्थान्वयस्य व्युत्पन्नत्वा'नायं धनस्ये'त्यस्याप्यनापत्तिरिति ध्येयम् ।
केचित्त अत्र चैत्रस्य स्वामित्वं नात्र चैत्रस्य स्वामित्वमित्यादिप्रतीत्यनुरोधान्निरूपकत्वमपि वृत्तिनियामक मेव । न चात्र स्वामित्वपदं स्वत्वपरं, सप्तम्या वा निरूपितत्वे लक्षणेति कल्पना युक्ता, गौरवात् । एतेनैवात्र स्वत्वनिरूपकत्वमेव स्वामित्वमित्येकदेशेऽपि, स्वत्वे सप्तम्यर्था