________________
स्वत्ववादः ]
[३७ न चवं स्वत्वस्य षष्टयर्थत्वेऽपि धनस्वामिन्यपि 'नायं धनस्येति व्यवहारापत्तिः, धननिरूपितस्वामित्वस्य पुरुषवृत्तित्वेऽपि धननिष्ठस्वत्वस्य पुरुषावृत्तित्वादिति वाच्यम्, इष्टत्वात् । स्वामित्वस्य षष्टयर्थत्वेऽपि तत्र निष्ठतासम्बन्धेनैव प्रकृत्यर्थान्वयस्य व्युत्पन्नतया तादृग्व्यवहारस्य दुर्वारत्वात् । न च तथापि वृत्त्यनियामकसम्बन्धस्याप्यभावप्रतियोगितावच्छेदकत्वनये स्वामित्वस्य षष्टयर्थत्वे न किमपि बाधकमिति धाच्यम्, तन्नयेऽपि प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यधिकरणत्वस्यैवाभावविरोधितया गगनादिसंयोगिनि घटादौ संयोगसम्बन्धावच्छिन्नगगनाद्यभाववच्चैत्रनिष्ठस्वामित्वनिरू- पकेऽपि धने निरूपकतासम्बन्धावच्छिन्नप्रतियोगिताकचैत्रनिष्ठस्वामित्वाभावस्य वृत्तौ बाधकाभावेन चैत्रीयेऽपि 'नेदं चैत्रस्येति व्यवहारापत्तेदुरित्वात् ।
__ न चैवं संयोगसम्बन्धायच्छिन्नगगनाद्यभाववद्विषयतासम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाद्यभावस्यापि केवलान्वयित्वं स्यात् , न स्याच विषयतासम्बन्धेन. ज्ञानादेः केवला'न्वयित्वम् , तस्याऽधिकरणत्वानियामकतया तेन सम्बन्धेन ज्ञानाद्यधिकरणत्वस्यैवाऽप्रसिद्धेरिति वाच्यम् , इष्टत्वात् , ज्ञानविषयत्वादेरेव केवलान्वयित्वात् । .. यदि च वृत्त्यनियामकसम्बन्धोऽप्यत्यन्ताभावप्रतियोगिता। वच्छेदकः, प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिसम्बन्धि