________________
विशदीकरण - लो० १२ ]
[ २७
दुट्ठ ||२|| (पू० पश्चा० ३८-३९) यत्पुनस्तीर्थ करत्वप्रार्थनं निरभिष्वंगं तददुष्टमिति सम्बन्धः । यथा धर्मात्कुशालानुष्ठानादेष तीर्थकरो भवतीति गम्यम् । किंभूतः १ अनेक सच्वहितः निरुपमसुखसंजननः, अपूर्विचन्तामणिकल्पः । तत्तस्मादेत - तीर्थकरानुष्ठानं धर्मदेशनादि - हितं पथ्यमनुपहतमप्रतिघातं, इतिर्गम्यः । इति प्रधान ( ग ) भावस्य एवंभूतसुन्दराध्यवसायस्य, तस्मिन् धर्मदेशनादौ जिनानुष्ठाने प्रवृत्तिस्वरूपं = प्रवर्त्तनस्वभावं, अर्थाssपच्या न्यायतः, साभिष्वंगस्य तीथकरत्वप्रार्थनस्य दुष्टत्वान्यथानुपपत्या निरभिष्वंगं तददुष्टमिति न्यायप्राप्तम् । न च वैयधिकरण्यं पुत्रस्य ब्राह्मणत्वाऽन्यथानुपपपत्त्या पित्रोब्रह्मणत्वं न्याय्यमितिवदुपपत्तिरिति भावः ।
उभयभावोपरागविनिर्मुक्ततीर्थकरत्वप्रार्थना किं रूपेति चेत् ? औदयिकभावप्रार्थनाविशिष्टा निदानं, क्षायिकभावप्रार्थनाविशिष्टा चाऽनिदानम् । वैशिष्ट्यं सामानाधिकरण्य-तत्तद्वयवधानाभावकूट सम्बन्धाभ्याम् । समूहालम्बनेच्छायां तु मानाभावो, भावे वाssस्तां निदानत्वाऽनिदानत्वे अव्याप्यवृत्तिजाती, इत्यादि प्रमाणार्णवसंप्लवव्यसनिनां गोचरः पन्थाः | तदेवमन्ते स्तत्रफलप्रार्थनारूपं प्रणिधानं भिन्नं, पूर्व तु क्रियमाणस्तवोपयोगरूपं भिन्नमित्यनुपयोगरूपत्वेन द्रव्यस्तवे नाऽवद्याशङ्का विधेयेति स्थितम् || ॥ सम्पूर्णम् ॥