________________
२६ ]
| कूपदृष्टान्त
1
आह च " मोक्खंगपत्थणा इय न नियाणं तदुचियस्स विण्णेयं । सुत्ताणुमईओ जह बोहीए पत्थणा माणं । " ( पू० प० ३६) इय = एषा "जयवीयराए" त्यादिका, तदुचितस्य = प्रणिधानोचितस्य, प्रमत्तसंयतान्तस्य गुणस्थानिन इत्यर्थः । सूत्रानुमतेः, साभिष्वङ्गस्य तस्य निरभिष्वङ्गताहेतुत्वेन सूत्रे प्रणिधानाऽभिधानात् यथा बोधेः प्रार्थना मानं= निदानत्वाऽभावसाधकमनुमानं दृष्टान्तावयवेऽनुमानत्वोक्तिरूपत्वात् । " एवं च दसाईसु तित्थयरंमि वि णियाणपडिसेहो । जुत्तो भवपडिबद्धं साभिस्संगं तयं जेणं ॥' (पू. पञ्चा० ३७ ) भवप्रतिबद्धं 'भवभ्रमणले (तो) प्यहं तीर्थकरो भृयासमिति विकल्पेन संसारप्रार्थनानुप्रविष्टं साभिष्वंगं रागोपेतं, 'तयं' ति तकतीर्थकरत्वम् ।
"
वस्तुतः औदयिकभावप्रकारत्वाऽवच्छिन्नतीर्थकर भवनेच्छाया एव निदानं (त्वं), तेन तीव्रसंवेगवतः 'कतिपयभवभ्रमणतोऽप्यहं सिद्धो भूयासमि' त्यस्येवोक्तसङ्कल्पस्थ न निदानत्वमित्युक्तावपि न क्षतिः । तीर्थ करत्व विभुतेरप्यकाम्यत्वमधिकृत्योक्तमन्यैरपि "देवागमन भोयानचामरादिविभूतयः मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महानि" ।। ति ( आ. मि. १) जं पुण णिरभिस्संगं धम्मा एसो अगसत्तहिओ । णिरूवमसुहसंजणओ अउव्वचितामणीकप्पो || १ || तो एयाणुट्ठाणं हियमणु(ह) वहयं पहाणभावस्स । तेसि पवित्तिसरूवं अत्थावत्तीइ तम