________________
विशदीकरण-श्लो॰ १२ ]
[ २५ व्यापारेषु प्रवत्तंनं, जातमनोरथानां यथाशक्ति तदुपाये प्रवृत्तेः । विघ्नजयो मोक्षपथप्रवृत्तिप्रत्यूहस्य जघन्यमध्यमोत्कृष्टस्याऽशुभभावरूपस्य प्रणिधानमनितशुमभावान्तरेणाभिभवात् । तथा सिद्धिर्विघ्न जयात् प्रस्तुतधर्मव्यापाराणां निष्पत्तिः । तथैव च स्थिरीकरणं स्वगतपरमधर्मव्यापाराणां स्थिरत्वाधानं, परयोजनाध्यवसायेनाऽनुबन्धाऽविच्छेद इति यावत् ।
"एत्तो चिय | णियाणं, पणिहाणं बोहिपत्थणासरिसं । सुहभावहेउभावा णेयं इहरा पवित्ती य ।।" (पू. पश्चा० ३०) इत एव-कुशलप्रवृत्त्यादिहेतुत्वादेव. बोधिप्रार्थनाऽऽरोग्यबोधिलाभसमाधिवरप्रार्थना । इतरथा निदानत्वेऽप्रवृत्तिरन्त्यप्रणिधाने स्यात् , सा चाऽनिष्टा । "एवं तु इट्ठसिद्धी दव्वपवित्ती उ अण्णहा णियमा । तम्हा अविरूद्धमिणं णेयमवत्थंतरे उचिए।।" (पू० पञ्चा० ३१) एवं पुनः प्रणिधानप्रवृत्ताविष्टसिद्धिः,प्रणिधानयुक्तचैत्यवन्दनस्य भावानुष्ठानत्वेन सकलकल्याणकारित्वात् । द्रव्यप्रवृत्तिस्त्वन्यथा-प्रणिधानं विना नियमात् , तस्माद्धेतोरेतत्प्रणिधानमविरुद्धम् , अवस्थान्तर अप्राप्तप्रार्थनीयगुणावस्थायां, तच्च 'जयवीअराए'त्यादि । न चेदं निदानं, मोक्षाङ्गप्रार्थनात्वात् बोधिप्रार्थनावत् । तीर्थकरत्वप्रार्थना चौदयिकभावांशे निदानं, छत्रचामरादिविभूतिप्रार्थनाया भवप्रार्थनारूपत्वात् , न तु क्षायिकभावांशे, तत्र तीर्थकरत्वोपलक्षितकेवलज्ञानादेरेव काम्यत्वात्तस्य च साक्षान्मोक्षांगत्वात् ।