________________
२४ ]
[ कूग्दृष्टान्त
पञ्चधा विधौ || १ || प्रणिधानं तत् समये, स्थितिमत्तदधः कृपानुगं चैव । निरवद्यवस्तुविषयं परार्थनिष्पत्तिसारं च | २ || तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गतात्यंतम् । अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव ॥ ३॥ विघ्नजय स्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टक ज्वर-मोहजय समः प्रवृत्तिफलः || ४ ||सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्विकी ज्ञेया । अधिके विनयादियुता, हीने च दयादिगुणसारा || ५|| सिद्धेवोत्तरकार्य, विनियोगोऽवन्ध्यमेतदेतस्मिन् । सत्यन्वयसम्पच्या, सुन्दरमिति तत्परं यावत् || ६ || आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽनुमन्तव्याः । भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा " ||७|| इति । न च सर्वापि जिनपूजा प्राधान्येनैव द्रव्यरूपा, अपूर्वत्वप्रतिसन्धानविस्मयभवभयादिवृद्धिभावाऽभावाभ्यां द्रव्यभावेतर विशेषस्य तत्र तत्र प्रतिपादनात् ॥
यत्तु प्रणिधानादि अन्ते चैत्यवन्दनान्ते प्रोक्तं तद्भिन्नं= विशिष्टतरं पूर्वं तु सामान्यं सर्वक्रियासामान्ये भावत्वाssपादकमिति भावः ।
"
"
कथमन्ते प्रणिधानादि भिन्नमिति चेदत्राहु: - " एयस्स समती कुसलं पणिहाणमो उ कायव्वं । एत्तो पवित्तिविग्वजयसिद्धि तहय तिथरीकरणं - " ( पू. पञ्चा. २९) एतस्य चैत्यवंदनस्य समाप्तौ कुशलं शुभं, प्रणिधानं प्रार्थनागतमेकाग्यम्, उ इति निपातः पादपूरणे, कर्त्तव्यं विधेयं, यस्मादितः प्रवृत्तिः = सद्धर्म