________________
विशदीकरण-श्लो० १२ ]
[२३ सम्यकत्वाऽवाप्तौ बन्धोपरमं करोति तदा द्वितीयो भङ्गः। पुनर्मिथ्यात्वे गत्वा तान् बद्ध्वा यदा भूयोपि सम्यक्त्वलाभेन बध्नाति तदा तृतीयः। इत्येवं ध्रुवबन्धिनीनां भङ्गत्रयम् । साधनन्तभङ्गकस्तु विरोधादेवानुद्भाव्यः । अध्रुवबन्धिनीनां त्वध्रुवबन्धित्वादेव सादिसान्तलक्षण एक एव भङ्गो लभ्यते । अधिकमस्मत्कृतकर्मप्रकृतिवृत्त्यादेरवसेयम् ।।
प्रणिधानप्रधाने तु चैत्यवन्दनेन तदपनीयते । अत एव प्रणिधानाद्याशयराहित्यात् द्रव्यक्रियारूपत्वेन पूजाया द्रव्यस्त्वत्वं इत्यत्राह-"दव्वथओ पुप्फाईण उ पणिहाणाइ विरहो चेव, पणिहाणाई अन्ते भिण्णं पूव्वि तु सामण्णं । दबथउ पुप्फाई, सन्तगुणकित्तणा भावे" इति नियुक्तिवचनाद्र्व्येण पुष्पादिना स्तवो द्रव्यस्तव इति व्युत्पत्तेर्जिनपूजाया द्रव्यस्तवत्वमुच्यते । गुणवत्तया ज्ञानजनकः शब्द इत्यत्र वर्णध्वनिसाधारणं ताल्वोष्ठपुटादिजन्यव्यापारत्वं शब्दत्वमिति जन्यान्तपरिहारेण व्यापारमात्रस्यैव ग्रहणौचित्यात् । आलकारिकमते चेष्टादिव्यापारस्य व्यञ्जकस्य ग्रहणावश्यकत्वेनोक्तपरिहारस्यावश्यकत्वाच्च । न तु प्रणिधानादिविरहादेव द्रव्यस्तवत्वं, तथा सति तुच्छत्वेनाऽप्राधान्यरूपद्रव्यपदार्थत्वप्रसङ्गात् ।
तदुक्तं षोडशके-"प्रणिधि-प्रवृत्ति-विघ्नजय-सिद्धिविनियोग-भेदतः प्रायः । धर्मज्ञैराख्यातः, शुभाशयः