________________
२२ ]
। कूपदृष्टान्तणानां चतुर्दशप्रकृतीनाम् , अनादिकालात् संतानभावे प्रवृत्तस्य बन्धस्य सूक्ष्मसम्परायचरमसमये यदा व्यवच्छेदः तदा । आसामेव चतुर्दशप्रकृतीनामुपशान्तमोहे यदाऽबन्धकत्वमासाद्याऽऽयुःक्षयेणाद्धाक्षयेण वा प्रतिपतितः सन् पुनर्बन्धेन सादिबन्धं विधाय भूयोऽपि सूक्ष्मसम्परायचरमसमये यदा बन्ध. विच्छेदं विधत्ते तदा तृतीयः । संज्वलनकषायचतुष्कस्य तु सदैव प्रवृत्तबन्धभावस्य यदाऽनिवृत्तिबादरादिर्बन्धविच्छेदं विधत्ते तदा द्वितीयः । ततः प्रतिपतितस्य पुनर्बन्धेन संज्वलनबन्धं सादिं कृत्वा कालान्तरेऽनिवृतिबादरादिभावप्राप्तौ तबन्धविच्छेदसमये तृतीयः । निद्राप्रचलातैजसकार्मणवर्णचतुष्काऽगुरुलघूपधातनिर्माणभयजुगुप्सास्वरूपाणां त्रयोदशप्रकृतीनामनादिकालादनादिवन्धं विधाय यदाऽपूर्वकरणाद्धायां यथास्थानं बन्धोपरमं करोति तदा द्वितीयो भङ्गः । यदा तु ततः प्रतिपतितस्य पुनर्वन्धेन सादित्वमासादयन् बन्धः कालान्तरेऽपूर्वकरणमारूढस्य निवर्त्तते तदा तृतीयः । चतुर्णा प्रत्याख्यानावरणानां बन्धो देशविरतगुणस्थानक यावदनादिस्ततः प्रमत्तादौ बन्धोपरमात् सान्त इति द्वितीयः । प्रतिपतितबन्धापेक्षया तृतीयः । अप्रत्याख्यानावरणानां त्वविरतसम्यग्दृष्टिं यावदनादिबन्धं कृत्वा देशविरतादाववन्धकत्व. समये द्वितीयः । प्रतिपातापेक्षया तृतीयः । मिथ्यात्वस्त्यानर्द्धित्रिकानन्तानुवन्धिनां तु मिथ्यादृष्टिरनादिबन्धको यदा