________________
विशदीकरण-श्लो० १२ ]
[ २१ ज्ञानावरणपश्चकं, दर्शनावरणनवकं, विघ्नपञ्चकमिति सप्तचत्वारिंशत् । ___ यासां च निजहेतुसद्भावेऽपि नावश्यंभावी बन्धस्ता अध्रुवबन्धिन्यस्ताश्चौदारिकवैक्रियाहारकशरीराणि, तदुपाङ्गानि ३, संहननषट्कं, संस्थानषट्कं, गतिचतुष्कं, खगतिद्विकमानुपूर्वीचतुष्टयं, जिननामोच्छ्वासनामोद्योतनामाऽऽतपनाम पराघातनाम, सदशकं, स्थावरदशकं, गोत्रद्विकं, वेदनीयद्विकं. हास्यादियुगलद्वयं, जातिपश्चकं, वेदत्रयमायुश्चतुष्टयमिति त्रिसप्ततिः ॥ एतासां निजहेतुसद्भावेऽप्यवश्यंबन्धाऽभावात् ।
तथाहि-पराघातोच्छवासनाम्नोः पर्याप्तनाम्नैव सह बन्धो नाऽपर्याप्तनाम्नाऽतोऽध्रुवबन्धित्वम् । आतपंपुनरेकेन्द्रियप्रायोग्यप्रकृतिसहचरितमेव बध्यते नान्यदा । उद्योतं तु तिर्यग्गतिप्रायोग्यबन्धिनैव सह । आहारकद्विकजिननाम्नी अपि यथाक्रम संयमसम्यक्त्वप्रत्ययेनैव बध्येते नान्यदेत्यध्रुवबन्धित्वम् । शेष. शरीरादिषट्षष्टिप्रकृतीनां सविपक्षत्वानिजहेतुसद्भावेऽपि नाऽवश्यं बन्ध इति तथात्वं सुप्रतीतम् ।
तत्र ध्रुवबन्धिनीषु भङ्गत्रयम् , अनाद्यनन्तो बन्धः, अनादिसान्तः, सादिसान्तश्च । तत्र प्रथमभङ्गकः सर्वासामपि तासामभव्याश्रितः, तद्बन्धस्यानाद्यनन्तत्वादिति । द्वितीयभङ्गकस्तु ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तरायपञ्चकलक्ष