________________
२० ]
[ कूपदृष्टान्त
बन्धा असाध्याः । प्रक्रमाद् द्रव्यस्तवभाविहिंसायाः सामान्यहेतुत्वसद्भावे ह्यवश्यंसम्भविबन्धाः । अत एव यत्र गुण. स्थाने तासां व्यवच्छेदस्ततोऽर्वाक् सततबन्ध एवेति सादिसान्तादिभङ्गग्रन्थे व्यवस्थितम् ।
अथाऽसातप्रकृतित्वावच्छिन्न इव पापप्रकृतित्वावच्छिन्ने .. ऽपि हिंसाया हेतुत्वस्य शास्त्रे व्यवस्थितत्वात् “यत्सामान्ये - यत्सामान्यं हेतुस्तद्विशेषे तद्विशेष" इति न्यायात् द्रव्यस्तयस्थलीयहिंसाया ज्ञानावरणीयादिप्रकृतिविशेषे हेतुत्वम् , भक्तिरागोपनीयमानप्रकृतिविशेषेषु बहुभागपाताच्च तत्राऽल्पतरभागोपनिपातेनाल्पत्वमिति चेत् ? तत्राह-तत्वे-द्रव्य. स्थलीयहिंसायाः ध्रुवबन्धिपापप्रकृतिविशेषहेतुत्वे इतरेतरा. श्रयता=अन्योन्याश्रयदोषः । द्रव्यस्तवीयद्रव्यहिंसाया भाव. [स्तव] हिंसात्वसिद्धौ उक्तहेतुत्वसिद्धिः, तसिद्धौ च भावहिंसात्वमिति । द्रव्यहिंसा त्वाऽऽसयोगिकेवलिनमवर्जनीया । एवंविधे चार्थसमाजसिद्धे चार्थे नियतोक्तहेतुत्वाश्रयणे पौषधादावतिप्रसङ्गस्तदाप्यल्पज्ञानावरणीयादिबन्धानुपरमादिति दिक् ॥
अत्रेयं ध्रुवबन्धादिप्रक्रिया-निजहेतुसद्भावे यासामवश्यं भावी बन्धस्ताः ध्रुवबन्धिन्यस्ताश्च वर्णचतुष्कं, तैजसं, कार्मणमगुरुलघु, निर्माणोपघातभयकुत्सामिथ्यात्वं, कषायाः