________________
१४ ]
[ कूपदृष्टान्त
भावेऽप्यविधिभक्तिपर्यवसायिनि विधिपक्षादृषकतामप्यसहमाने भक्तिभावस्(?स्य)तथा अविधियुतस्य विषयेऽप्यर्चनादेर्भावस्तवाहेतुत्वेन नद्रव्यस्तवत्वमिति प्रतिपादनादिति विवेचकाः॥७॥ . ननु किमित्येवमविधियुतभक्तिकर्मणो व्यवहारतो निश्चयतो वा बन्धप्रदीर्घकालापेक्षया मिश्रत्वमुच्यते, यावता द्रव्यहिंसयैव जलपुष्पादिजीवोपमर्दरूपया मिश्रत्वमुच्यताम् , उत्तरकालिकचैत्यवन्दनादिभावस्तवेन तदोषापनयनात्कूपदृष्टान्तोपपत्तेः १ इत्याशङ्कायामाहजइ(अ)विहिजुयपूयाए, दुहृत्तं दव्वमित्तहिंसाए । तो आहारविहारप्पमुहं साहूण किमदुढें ॥८॥
व्याख्या-यदि(घ)विधियुतपूजायां विधियुतभक्तिकर्मणि, द्रव्यमात्रहिंसया दुष्टत्वं स्यात् , 'तो'त्ति तर्हि-साधनामाहारविहारप्रमुखं किमदुष्टमुच्यते ? तदपि दुष्टमेव वक्तुमुचितम् , तत्रापि द्रव्यहिंसादोषस्यावर्जनीयत्वात् । यतनया तत्र न दोष इति चेत् ? अत्रापि किं न तथा ! जिनपूजादौ द्रव्यहिंसाया असदारम्भप्रवृत्तिनिवृत्तिफलत्वेनाहिंसारूपत्वात् । तदुक्तम्• "असदारंभपवत्ता, जं च गिही तेण तेसि विण्णेया। तण्णिवित्तिफलच्चिय, एसा परिभावणीयमिणं ॥१॥" (पू०पश्चा० ४३) व्याख्या-असदारम्भप्रवृत्ताः प्राण्युपमर्दन हेतुत्वेनाशोभनकृष्यादिव्यापारप्रसक्ताः, यद्यस्माद्धेतोः, चशब्दः समुच्चये,