________________
विशदीकरण - श्लो०]
[ १५
गृहिणः = गृहस्थाः, तेन हेतुना, तेषां गृहिणां विज्ञेया = ज्ञातव्याः, तन्निवृत्तिफलैव देहगेहादिनिमित्तजीवोपमर्दनरूपाशुभारम्भनिवृत्तिप्रयोजनैव । भवति हि जिनपूजाजनितभावविशुद्धिप्रक पेण चारित्रमोहनीयक्षयोपशमसद्भावात्कालेनासदारम्भेभ्यो निवृत्तिः । तथा जिनपूजाप्रवृत्तिकाले चाऽसदारम्भाणामसम्भवात् शुभभावसम्भवाच्च तन्निवृत्तिफलाऽसौ भवतीत्युच्यते । एषा = जिनपूजा, परिभावनीयं = पर्यालोचनीयम्, इदं जिन पूजाया असदारम्भनिवर्तनफलत्वं भवद्भिरपि येनावबुध्य तथैव प्रतिपद्यते इति गाथार्थः " इति पञ्चाशकवृत्तौ । * 'यतनातो न च हिंसा, यस्मादेषैव तन्निवृत्तिफला । तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति ||१६|| " [ षष्ठषोडशके ]
9
अत एवाssपेक्षिकल्पायुष्कताधिकारे " नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्तव्यता मापन्नमिति चेत् ? आपद्यतां नाम भूमिकाविशेषापेक्षया को दोषः १ अत एव यतिधर्माऽशक्तानां द्रव्यस्तवद्वारेण प्राणातिपातादौ प्रवृत्तिः प्रवचने प्रोक्ते ति भगवतीवृत्तावुक्तम् । अत्र यतिधर्माशक्तत्वम् अपदारम्भप्रवृत्तत्वम् अधिकारिविशेषणं द्रष्टव्यम् । कूपज्ञातान्यथानुपपत्त्या पूजादिकाले द्रव्यहिंसाजनितं पापमवर्जनीयमेव, आज्ञायोगादाहारविहारादिकं साधूनां न दुष्टमिति चेत् ? अत्रापि परिमितसंसारफलकत्वार्थवादेनानुकम्पादाविवाज्ञायोगः किं न
* 'तदुक्तमि' त्यत्राप्यनुवर्त्तते ।