________________
विशदीकरण-श्लो० ७ ]
[ १३ मिश्रं कर्म शास्त्रे प्रोक्तं येन मिश्रात्ततो मिश्रं कर्म वध्ये. तेत्याशङ्कायामाहसुद्धासुडो जोगो, एसो ववहारदसणाभिमभो। णिच्छयणओ उ णिच्छई, जोगमवसाणमिस्सत्तं ॥७॥
व्याख्या-एष दुर्गतनारीसदृशानां जीवानां विधिवैधुर्येऽपि भक्तिकालीनो जिनपूजायोगः अशुद्धदानादिवच्छुद्धाशुद्धः आंशिकशुद्धयशुद्धिवान् व्यवहारदर्शनस्य-व्यवहारनयस्य अभिमतः । ततश्च वाग्व्यवहारमात्रसिद्धर्नान्यत्फलम् । निश्चयनयस्तु योगा(गेन)ध्यवसायस्थानानां मिश्रत्वं नेच्छति, अशुभरूपाणां शुभरूपाणां च शास्त्रे प्रतिपादनात् तृतीयराशेरकथनादिति स्पष्टं महाभाष्ये ।
ननु (न च) समूहालम्बनोपयोगरूपस्याध्यवसायस्य सम्भवात्कथं तदप्रतिपादनमिति वाच्यम् , समूहालम्बनज्ञानस्य विशेषणीयत्वाद् , विध्यौपयिकस्य विशिष्टोपयोगस्यैवमधिकृतत्वादिति युक्तमुत्पश्यामः । तथा चाविध्यंशे उत्कटत्वेऽशुद्ध एव, भक्त्यंशे पुनरुत्कटत्वे शुद्ध एव योग इत्येतन्मते एकस्माद्योगादेकदैक एव बन्धः, बन्धकालस्य प्रदीर्घत्वात् परिणामपरावृत्त्या च मिश्रत्वं भावनीयम् ।
एकधारारूढे तु भक्तिभावेऽविधिदोषोऽपि निरनुबन्धतयाद्रव्यरूपतामश्नुवंस्तत्र भग्न इवावतिष्ठते । एकधारारूढेऽविधि