________________
विशदीकरण-श्लो० ६ ]
[ ११ ततोऽरण्याऽऽदृष्टानि मुधा लभ्यानि सिंदुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिभरनिर्भराङ्गी अहो ! धन्या पुण्या कृतार्था कृतलक्षणा, सुलब्धं मम जन्म, जीवितफलं चाहमवाप' इति भावनया पुलककण्टकितकाया प्रमोदजलप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोग्न्तराल एव वृद्धतया क्षीणायुष्कतया च झगिति पश्चत्वमुपगता । ततो सा विहित. पूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती । ततस्तस्याः कडेवरमवनिपीठलोठितमवलोक्याऽनुकम्पापरीतान्त:करणो लोको मूर्छितेयमिति मन्यमानोऽम्भसा सिषेच । ततस्तामपरिस्पन्दामवलोक्य लोको भगवन्तं पप्रच्छ, “भगवन् ! असौ वृद्धा किं मृतोत जीवतीति ?" भगवांस्तु व्याजहार यथा"मृताऽसौ देवत्वं चावाप्ता"।ततः पर्याप्तिभावमुपागत्य प्रयुक्तावधिः पूर्वभवानुभुतमवगम्य मद्वन्दनार्थमागतः, स चायं मत्पुरोवर्ती देव इति । ततो भगवदभिहितमिदमनुश्रुत्य समस्तः ससमवसरणधरणीगतो जनः परमं विस्मयमगमत् । यथा "अहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तासाविति" । ततो भगवान्गम्भीरां धर्मकथामकथयत् , यथा-स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्र विषयो महाफलो भवति । यतः "इक्कंपि उदगविन्दु , जह पविखत्तं महासमुइंमि । जाए अक्खयमेवं, पूयावि जिणेसु विन्नेया । उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारंमि । उत्तमधम्मपसिद्धी, पूयाए जिण