________________
१०]
| कूपदृष्टान्त
परम्परया मुक्तिजनकमिति केचित् ब्रुवते । हरिभद्राचार्यास्तु * "अभ्युदयफले चाद्ये निश्रेयससाधने तथा चरमे" इत्याहुः । आधे = प्रीतिभक्त्यनुष्ठाने, चरमे = वचनः सङ्गानुष्ठाने |
दुर्गतनारीज्ञातं चैवं - श्रीमन्महावीरवर्द्धमानस्वामी इक्ष्वाकुकुलनन्दनः प्रसिद्ध सिद्धार्थपार्थिवपुत्रः पुत्रीयित निखिलभूवनजनो जनितजनमनश्चमत्कारगुणग्रामो ग्रामाकरनगरपृथु पृथिवीं विहरन्नन्यदा कदाचित्काकन्दीनामिकाय पुरि समाजगाम । तत्र चाऽमरचरविसरविरचितसमवसरण मध्यमवर्तिनि भगवति धर्मदेशनां विदधति नानाविधयानवाहनममारूढप्रौढपत्तिपरिगते सिन्धुरस्कन्धमधिष्ठिते छत्रच्छन्न नभःस्थले माग - धोद्गीतगुणगणे भेरीभाङ्कारभरिताम्बरतले नरपतौ तथा तद्विधवरवैश्यादिकपुरजने तथा गन्धधूपपटलप्रभृतिपूजा पदार्थव्यग्रकरकिङ्करीनिकर परिगते विविधवसनाभरणरमणीयतरशरीरे नगनारीनिकरे भगवतो वन्दनार्थं व्रजति सति एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थं बहिर्निर्गतया कश्चिन्नरः पृष्टः क्वाऽयं लोक एकमुखस्त्वरितं याति ? तेनोक्तं जगदेकवान्धवस्य देहिनां जरामरणरोगशोक दौर्गत्यादिदुः खछिदुरस्य श्रीमन्महावीरस्य वन्दनपूजनाद्यर्थम् । ततस्तच्छ्रवणात् तस्या भगवति भक्तिरभवत् । अचिन्तयच्च, अहमपि भगवतः पूजार्थं यत्नं करोमि, केवल महमतिदुर्गता पुण्यरहिता विहितपूजाङ्गवर्जितेति । * एतदनुष्ठानानां विज्ञेये इड् गतापाये ॥ इति उत्तरार्द्ध दशमषोडश के गा है।