________________
विशीकरण-श्लो० ५-६ ]
सम्भावणे विसद्दो दिटुंतोऽनणुगुणो पयंसेह। सामण्णाणुमईए सूरी पुण अंसओ पाहं ॥५॥ व्याख्या-सदोषमपि स्नानादि(दी)त्यत्रापिशब्दः सम्भावने, तेन (न) सर्वसदोषमेव, यतनादिसत्वे भावोत्कर्षे दोषाभावात् । दृष्टान्तोऽशुद्धदानरूपः शुद्धजिनपूजायामननुगुणोऽननुकूलः । मूरि: अभयदेवमूरिःपुनः, सामान्यानुमितो-स्नानत्वपूजात्वाद्यवच्छेदेन निर्दोषत्वानुमितौ "न चैतदाऽऽगमानुपाती" त्यादिना अंशतो बाधं प्रदर्शयति । विधिविरहितायाः पूनायाः कई. मोपलेपादितुल्योऽल्पदोषो दुष्टत्वात् । भवतिचांशतोवाधप्रतिसन्धानेऽवच्छेदकावच्छे देनाऽनुमितिप्रतिवन्धः । सामानाधिकरण्येनानुमितौ तु नायमपि दोष इति विभावनीयं सुधीभिः ।।५।।
ननु परिमाण(णाम)प्रामाण्ये विधिवेगुण्येऽपि को दोष इत्याशङ्कयाहदुग्गयनारीणाया जइवि पमाणीकया हवह भत्ती। तहवि अजयणाजणिभा हिंसा अन्नाणओ होई ॥६॥
(व्या०) दुर्गतनारीज्ञाताद् यद्यपि प्रमाणीकृता भवति भक्तिः, तथापि अयतनाजनिता हिंसाऽज्ञानतो भवति, 'प्रमादानाभोगाभ्यां प्राणभृतानि हिनस्तीति वचनात् । तथा च तत्र आचार्योक्तिः कूपदृष्टान्त उपतिष्ठत एव । अव्यु. त्पत्त्ययतनाजनितस्य दोषस्योत्तरशुभभावदृष्टय व शोधयितु शक्यत्वात् । भक्त्यनुष्ठानमपि अविधिदोषं निरनुबन्धीकृत्य