________________
८]
कूपदृष्टान्त
र्थाऽव्युत्पन्नानामेव अशुद्धदानसम्भवस्तादृशानामेव च जिनपूजासम्भवोऽपि विधिवैकल्यवानेव सम्भवतीति ।
यत्तु-'गुणवते पात्राय(या)ऽप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भानिर्जरा, व्यवहारतो जीवघातेन चारित्रसाधनाच पापं कर्म, तत्र स्वहेतुसामर्थ्या(त्या)पेक्षया बहुतरा(निर्जरा) निर्जरापेक्षया च अल्पतरं पापं भवति तच्च कारण एव, यत उक्तं-"संथरणंमि असुद्धं दुन्न वि गिणंतदं(दि)तयाणहियं । आउरदिट्टतेणं तं चेव हियं असंथरणे" [निशीथभाष्य गा. १६५०] त्ति-तगीतार्थान्यतरपदयैफल्य एव युज्यते, तत्सा कल्ये स्वल्पस्यापि पापस्याऽसम्भवात् , व्यवहारतो बाधकस्यावाधकत्वात् । स्वहेतुसामर्थ्यस्य द्रव्यभावाभ्यामुपपत्तेः । अयमेवातिदेशो विधिशुद्धजिनपूजायां द्रष्टव्यः ।
अन्यस्त्वकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशात् बहुतरा निर्जरा अल्पतरं च पापकर्मेति च प्रतिपादितम् , परिणामप्रामाण्यात् । “संथरणमी०"त्यादी अशुद्धं द्वयोरपि दात्गृहीत्रोरहितायेति च व्यवहारतः संयमविराधकत्वात् । दायकस्य लुब्धकदृष्टान्तभावितत्वेनाव्युत्पमत्वेन च देवगतो शुभाल्पाऽऽयुष्कतानिमित्तत्वादिति योजितम् । अयमतिदेशोऽव्युत्त्यु(त्प)नीयपूजायां दृष्टव्य इति ॥४||
तदिदमखिलम्मनसिकृत्याह