________________
[७
विशदकीरण-श्लो० ४ ] . अन्ये तु यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिना आधाकर्मादिकरणेन च प्राणातिपातादिपु वर्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अविशेषणत्वेऽपि सूत्रस्य प्राणा.तपातादिविशेषस्य अवश्यं वाच्यत्वात् , अन्यथेतस्तृतीयसूत्रे प्राणातिपातादितः अशुभदीर्घायुष्कतावचनानुपपत्तेः । न हि सामान्यहेतोः कार्यवैषम्यं युज्यते । अपि च अल्पतरपापबहुतरनिर्जराहेतुताया अशुद्धदाने अभिधास्यमानत्वाद् नैवेयं क्षुल्लकभवग्रहणरूपा अल्पायुष्कता । न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते जिनपूजाधनुष्ठानस्याऽपि तथात्वप्रसङ्गादिति व्याख्यानेऽपि विधिवैकल्यवत्येव जिनपूजा ग्राह्येति द्रष्टव्यम् । अशुद्धदानादिदृष्टान्तैः क्रियमाणाया जिनपूजाया विधिशुद्धाया ग्रहणानौचित्यात् । "काऊण जिणायणेहिं मण्डियं सयलमेइणीवटें दाणाइचउक्केण वि सुठु वि गच्छिज्ज अच्चु न परओ" त्ति महानि. सीथे सामान्यतो जिनपूजाया दानादिचतुष्कतुल्यफलकत्वोपदेशेन विशेषे विशेषस्यैव औपम्यौचित्यात् । - किश्च-“संविग्गभावियाणं लुद्धयदिळंतभावियाणं च मुत्तूण खित्तकालं भावं च कहति सुद्धछं"[बृहत्कल्पभाष्ये गा. १६०७] त्येतत्पर्यालोचनयालुब्धकदृष्टान्तभावितानामागमा