________________
[ कूपदृष्टान्त
प्राणव्यपरोपणं हिंसे"ति (७-८) तत्वार्थोक्तहिंसालक्षणसद्भावात् हिंसारूपस्यैव कायवधस्यात्र प्रतिषेध्यत्वात् । जलपुष्पोपनयनादिरूपस्य च पूजाभ्यन्तरीभूतस्य "देहादिनिमित्तं पि हु जे कायवहंमि तह पयन्ति । जिणपूआकायवहंमि तेसिमपवत्तणं मोहो"(पू.पश्चा.४५)। इत्यादिना उपत्यकरणस्याप्यनुज्ञान त् , अप्रवृत्तिनिन्दार्थवादस्य विध्याक्षेपकत्वात् । विधिस्पष्टे च निषेधानवकाशात् । यदि च विधिसामग्र्येऽपि पुष्पजलोपहारादिरूपहिंसादोषोऽत्र परिगण्येत , तदा तस्य पूजानान्तरीयकत्वेन "कायवहो जइवि होइ उ कहंचि" ति नावक्ष्यदाचार्यः, किन्तु "कायवहो होइ जइवि नियमेण"मित्येवाऽवक्ष्यत् । अपि च पदार्थ-वाक्यार्थ-महावाक्यार्थ-ऐदंपर्यार्थविचारणायां हिंसासामान्यस्य निषेधस्य अविधिनिषेधपरताया एव व्यवस्थितत्वात् विधिसामग्ये न हिंसादोषः, अन्यथा चैत्यगृह-लोचकरणादौ तत्सम्भवो दुर्निवार इत्यादिसूक्ष्ममीक्षितमुपदेशपदादौ । - एतेन "कहन्नं भन्ते जीवा अप्पाउत्ताए कम्मं पगरेंति ? पाणे अइवइत्ता, मुसं वइत्ता, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभित्ता एवं खलु जीवा अप्पाउयत्ताए कम्मं पगरन्ति" इत्यत्र अध्यवसायविशेषादेतत्त्रयं जघन्यायुःफलमिति व्याख्याय (तम्)।