________________
विशदीकरण-श्लो० ३-४ ]
[५ ___ व्याख्या-ईषदुष्टत्वे अल्पपापबहुनिर्जराकारणत्वे, यद् एतस्य-कूपदृष्टान्तस्य, नवाङ्गीवृत्तिकारेण श्रीअभयदेवसूरिणा पश्चाशकाष्टकवृत्त्यादौ (संयोजनं कृतं), तद्विधिविरहे यतनादिवैकल्ये, भक्तिमात्रमधिकृत्य । विधिभक्त्यादिसाकल्ये तु स्वल्पमपि पापं वक्तुमशक्यमेवेति भावः ॥३॥
कथमयमाशयः सूरेति इति चेत् १, तत्राहइहरा 'क'हंचि' वयणं, कायषहे कह णु होज पूयाए। न य तारिसो तवस्सी, जंपइ पुव्वावरविरुद्धं ॥४॥
व्याख्या-इतरथा सूरेरुक्ताशयाभावे, पूजायां कायवधे 'कथञ्चिद्'वचनं कथं नु भवेत् ? न कथञ्चिदित्यर्थः । न च तादृशस्तपस्वी पूर्वापरविरुद्धं वचनं जल्पति । तस्मादीषदोषदुष्टं जिनपूजादिकं विधिविरहभक्तिकालीनमेव ग्राह्यमित्याशय एव युक्तः ।
अयं भावः-पूजापञ्चाशके जिनार्चने कायवधेन प्रतिक्रुष्टेन दुष्टत्वात्कथं परिशुद्धत्वमित्याशङ्कायाम् “भण्णइ जिणपूजाए, कायवहो जइवि होइ उ कहंचि । तहवि तई परिसुद्धा, गिहीण कूवाहरण जोगा॥४२॥” इति श्रीहरिभद्रसरिभिस्समाहितम् । तत्र च 'यतनाविशेषेण प्रवर्त्तमानस्य सर्वथापिन भवती' ति दर्शनार्थ कथञ्चिद्ग्रहणमित्यभयदेवसू रभिर्याख्यातम्, तेन विधिविरह एव कायवधः पर्यवस्यति । 'प्रमादयोगेन
१ पूजापञ्चाशः ४२ गाथायां हरिभद्रसूरिवचनमिदम् ।