________________
४]
[ कूप दृष्टान्तनपोह्य स्वोपकाराय परोपकाराय च भवत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति ।
ह केचिन्मन्यन्ते- पूजार्थस्नानादिकरण कालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमुदाहरणम् , ततः किलेदमित्थं योजनीयं यथा कूपखननं स्वपरोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति । नचैतदागमानुपाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टत्वात्, कथमन्यथा भगवत्यामुक्तं "तहारूवं समणं बा माहणं वा पडिहयपञ्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामेमाणे भंते ! किं कज्जड १ गोयमा ! अप्पे पावे कम्मे बहुत रया से णिज्जरा कज्जह" । तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिपत्तिरपि कथं स्यात् ? इत्यलं प्रसङ्गेनेति गाथार्थ इति"ॐ ॥२॥
तदेतन्निनुवां कूपदृष्टान्तविशदीकरणं काकपक्षविशदीकरणवदुपहासपात्रतामभिव्यनक्ति, स्वसम्मताभियुक्तवचनविरुद्धत्वादित्याशङ्कायां नाभियुक्तवचनविरोधो बोधोन्मुखानामवभासते, तस्य भिन्नतात्पर्यकत्वादित्याशयवानाइइसिं दुहत्ते जं, एयरस नवंगिवित्तिकारेणं । संजोयणं कयंत, विहिविरहे भत्तिमहिकिच ॥३॥