________________
विशदीकरण-श्लो० २ ] पूजार्चादि, आदिशब्दाद्विलेपनादिग्रहः, गुणायेति योगः, यतनया रक्षयितु शक्यजीवरक्षणरूपया । तत्किं साधोरपीत्याशङ्कयाह-आरम्भवतः स्वजनधनगेहादिनिमित्तं कृष्यादिकर्मभिः पृथिव्यादिजीवोपमर्दयुक्तस्य गृहिण इत्यर्थः। न पुनः साधोः,तस्य सर्वसावद्ययोगविरतत्वाद्भावस्तवारूढत्वाच्च । भावस्तवारूतस्य हि स्नानादिपूर्वकद्रव्यस्तवोऽनादेय एव, भावस्तवार्थमेव तस्याश्रयणीयत्वात्तस्य च स्वत एव सिद्धत्वात् । इमं चार्थ प्रकरणान्तरे स्वयमेव वक्ष्यतीति । गुणाय पुण्यवन्धलक्षणोपकाराय, नियमेन अवश्यम्भावेन । अथ कथं स्वरूपेण सदोषमप्यारम्भिणो गुणायेत्याह - 'सुहभावहेउओ' त्ति लुप्तभावप्रत्ययत्वेन निर्देशस्य, शुभभावहेतुत्वात्-प्रशस्तभावनिवन्धनत्वाज्जिनपूजार्थस्नानादेः, अनुभवन्ति च केचित्स्नानपूर्वकं जिनार्चनं विदधानाः शुभभावमिति । खलुक्यालङ्कारे, विज्ञेयं ज्ञातव्यम् । अथ गुणकरत्वमस्य शुभभावहेतुत्वात्कथमिव ज्ञेयमित्याह-कूपज्ञातेन-अवटोदाहरणेन । इह चैवं साधनप्रयोगः ‘गुणकरमधिकारिणः किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वाद्, यद् विशिष्टशुभभावहेतुभूतं तद् गुणकरं दृष्टं यथा कूपखननं, विशिष्टशुभभावहेतुश्च यतनया स्नानादि,ततोगुणकरमिति' । कूपखननपक्षे शुभभावः तृष्णादिव्युदासेनाऽऽनन्दाद्यवाप्तिरिति । इदमुक्तं भवति, यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषा