________________
[ कूरदृष्टान्तपर्वते महानसं दृष्टान्त' इतिवदयं प्रयोगः । अत्र च भगवतश्चत्वारोमूलातिशयाः प्रतिपादिताः । तथाहि-महावीरमित्यनेन "विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥" इति निरुक्तात्सकलापायमूलभूतकर्मविदारणक्षमतपोवीर्यविराजमानत्वाभिधानादपायापगमातिशयः १, त्रिदशेन्द्रनमस्कृतमित्यनेन पूजातिशयः २, महाभागमित्यनेन ज्ञानातिशयः प्रतिपादितः ३, वचनातिशयश्च सामर्थ्यगम्य इति ४ ॥१॥
प्रतिज्ञातमेवाहसपरोवयारजणगं. जणाण जह कूवखणणमाइठं ॥ अकसिणपवत्तगाणं तह पव्वथओवि विणेओ।।२।।
व्याख्या-यथा जनानां कूपखननं निर्मलजलोत्पादनद्वारा स्वपरोपकारजनकमादिष्टम् , एवं अकृत्स्नप्रवर्तकानां कृत्स्नसंयमेऽप्रवृत्तिमतां गृहिणां द्रव्यस्तवोऽपि स्नानपूजादिकः करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं विज्ञेयः । दृष्टान्ते उपकारो द्रव्यात्मा, दार्शन्तिके च भावात्मेतिभावः ॥२॥
नन्वियं योजनाऽभयदेवसूरिणेव(चतुर्थ) पञ्चाशकवृत्तौ दृषिताऽन्यथायोजना च कृता । तथाहि-म"न्हाणाइवि जयणाए, आरंभवओ गुणाय णियमेणं । सुहभावहेउओ खलु विण्णेयं कूवणाएणं ॥१०॥" स्नानाद्यपि-देहशौचप्रभृतिकमपि आस्तां
भइत आरभ्य द्वितीयस्वस्तिकान्तः पञ्चाशकवृत्तिपाठः ।