SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ( २६ ) प्रकृतिः, सूयते सचराचरम् ॥ तपाम्यहमहं वर्ष, निगृह्णाम्युत्सृजामि च ॥१॥" इत्यागमेन भगवतः सर्वाधिष्ठानत्वं श्रूयते । एवं इयमनुमानख्यापककारिकाऽपि तस्य कर्तृत्वसाधने प्रभवति-कार्यायोजनधृत्यादेः, पदात् प्रत्ययतः श्रुतेः । वाक्यात् संख्याविशेषाच्च, साध्यो विश्वविदव्ययः ॥१॥ अस्यार्थः-कार्यादीश्वरसिद्धिः कार्य सकर्तृकं कार्यत्वात् घटवदिति अनुमानात , न च कार्यत्वस्य कृतिसाध्यत्वलक्षणस्य क्षित्यादावसिद्धिरिति वाच्यं, कालवृत्त्यत्यन्ताभावप्रतियोगित्वे सति प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वे सति वा सत्त्वस्य हेतुत्वात् । न चात्र कार्यत्वसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे दृष्टान्ते घटादौ सिद्धसाधनमिति वाच्यं, पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धेरुद्देश्यत्वात् , न च पक्षतावच्छेदकहेत्वोरैक्यप्रसङ्गदोष इति वाच्यं, कार्यत्वं साध्यसमानाधिकरणम् इति सहचारग्रहेऽपि कार्य सकर्तृकम् इति बुद्धेरभावात् । ननु तथापि सकरीकत्वं यदि कर्तृसाहित्यमानं तदाऽस्मदादिना सिद्धसाधनम् । यदि च कर्तृजन्यत्वं तदा बाधोऽपि, ज्ञानादेरेव जनकतया कर्तुरजनकत्वादिति चेत् , न, प्रत्यक्षजन्येच्छाजन्यत्वादिना साध्यतायामदोषात् । विशेध्यतासम्बन्धावच्छिन्नकारणताप्रतियोगिकसमवायावच्छिन्नजन्यत्वस्य साध्यत्वेन नादृष्टद्वाराऽस्मदादिज्ञानजन्यत्वेन सिद्धसाधनं अर्थान्तरं वा । अथात्र शरीरजन्यत्वमुपाधिः, तस्य घटादौ साध्यव्यापकत्वाद्, अङ्कुरादौ साधनाव्यापकत्वाच,
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy