SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ( २५ ) ष्टविधम्-तथाहि-अणिमा-लधिमा-प्राप्तिः प्राक्राम्यं महिमा तथा । ईशित्वं च वशित्वं च यत्र कायावसायिता ॥१॥ यतो महानणुर्भवति सर्वभूतानामप्यदृश्यः सोऽणिमा १, यतो लघुर्भवति सूर्यरश्मीनप्यालम्ब्य सूर्यलोकादिगमनसमर्थः स लघिमा २, यतो भूमिष्ठस्याप्यङ्गुल्यग्रेण गगनस्थादिवस्तुप्राप्तिः सा प्राप्तिः ३, यतः इच्छानभिघात उदक इव भूमावुन्मजति निमजति च तत्प्राकाम्यम् ४, यतोऽल्पोऽपि नाग: नगादिमानो भवति स महिमा ५, यतस्तेषु प्रभव-स्थितिव्ययानामीष्टे तदीशित्वम् ६, वशित्वं यतो भूतभौतिकेषु स्वातन्त्र्यम् ७, यत्र कामावसायित्वं यतः सत्यसङ्कल्पता भवति यथेश्वरसङ्कल्पमेव भूतभावादिति ८ । धर्मश्च प्रयत्नसंस्काररूपोऽधर्माभावादप्रतिषः। एतच्चतुष्टयं सहसिद्धम् अन्यानपेक्षतयाऽनादित्वेन व्यवस्थितम् । अत एव नेश्वरस्य कूटस्थताव्याघातः, जन्यधर्मानाश्रयत्वादिति बोध्यम् ।। एतच्चतुष्टयसहसिद्धस्यैव कर्तुत्वं विरोधाभावात् , तथा चोक्तं "अज्ञो जन्तुरनीशोऽय-मात्मनः सुखदुःखयोः ॥ ईश्वरप्रेरितो गच्छेस्वर्ग वा श्वभ्रमेव वा ॥ १॥" अयं संसारी जन्तुः आत्मनः सुखदुःखयोर्जायमानयोः, अनीशः अकर्ता यतोऽज्ञः हिताहितप्रवृत्तिनिवृत्त्युपायानभिज्ञः, अतः स्वर्ग वा श्वभ्रमेव नरकमेव वा ईश्वरप्रेरितो गच्छेत्, अज्ञानां प्रवृत्ती परप्रेरणाया हेतुत्वावधारणात् पश्वादिप्रवृत्तौ तथादर्शनात् , अचेतनस्यापि चेतनाधिष्ठानेनैव व्यापाराच्च । अत एव " मयाऽध्यक्षेण
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy