SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ( २४ ) प्रभुत्वेन व्यभिचाराच्च, न हीन्द्रो ज्ञानशक्त्यैव स्वकार्यं कुरुते, तस्येच्छाप्रयत्नयोरपि भावात् । न चास्य प्रभुत्वमसिद्धं, प्रभुत्वसामान्यस्य सकलामरस्वामिरूपस्य स्वातन्त्र्यलक्षणस्वामिरूपस्य वा सद्भावात् । , 9 अथ महेश्वरः समीहामन्तरेणापि केवलज्ञानशक्त्यैव मोक्षमार्गप्रणयनं तन्वादिकार्यं च कुर्वीत महेश्वरत्वात् यथा भवन्मते जिनेश्वरः प्रवचनोपदेशमिति केचित् तेऽपि विचारशून्या एव, अस्माभिः स्याद्वादिभिः प्रतिज्ञायमानस्य जिनेश्वरस्य ज्ञानशक्त्यैव प्रवचनलक्षणकार्य करणाप्रसिद्धेः, सत्येव तीर्थप्रवर्तनफलतीर्थ करनामकर्मरूपपुण्यातिशये दर्शनविशुद्ध्यादिभावनाविशेषनिबन्धने समुत्पन्न केवलज्ञानस्य तदुदयप्राप्तौ प्रवचनाख्यतीर्थकरणप्रसिद्धेः तथा च प्राहुर्वाचकमुख्याः "तीर्थप्रवर्तन फलं, यत्प्रोक्तं कर्म तीर्थकरनाम । तस्योदयात्कृतार्थोऽप्यहस्तीथं प्रवर्तयति ।। " इति प्रक्षीणाशेषकर्मणः सिद्धस्य वाक्प्रवृत्तेरसम्भवात् इति धर्मविशेषविशिष्ट एवोत्तम संहननशरीरः केवली प्रवचनलक्षणतीर्थस्य कर्त्ता प्रसिद्ध इति । ननु महेश्वरस्य धर्मविशेषोऽपि नो न किञ्चिदनिष्टम्, तथा चागमःज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्व, । सहसिद्धं चतुष्टयम् ॥ १ ॥ इति । अस्यार्थः - यस्य जगत्पतेर्ज्ञानम्, अप्रतिघम्-नित्यत्वेन सर्वविषयत्वात् क्वचिदप्यप्रतिहतम् । वैराग्यं च माध्यस्थ्यं च रागाभावादप्रतिघम् । चः समुच्चये । " एवकारोऽवधारणे, ऐश्वर्यं च पारतन्त्र्याभावादप्रतिघम्, तच्चा
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy