________________
( २७') न चारादौ सकतकत्वरूपमाध्यसन्देहेनोपाघेः साध्यव्यापकत्वसंशयानोपाधिनिश्चय इति वाच्यं, तथापि सन्दिग्धोपा. धित्वस्य दुर्वारत्वात् । न चोपाधिसन्देहाहितो व्यभिचारस. न्देहोऽत्र पक्षीयव्यभिचारसन्देह एव स च न प्रतिबन्धक इति वाच्यं, पक्षतत्समयोर्व्यभिचारसंशयस्यापि प्रतिबन्धकत्वस्वीकारात् । न चैवं सति अनुमानमात्रोच्छेदापत्तिरिति वाच्यं, धूमो यदि वहिव्यभिचारी स्यात्तदा वह्निजन्यो न स्यादित्याद्यनुकूलतर्केण व्यभिचारसन्देहस्यापाकतुं शक्यत्वेनानुमानोच्छेदाभावात् । न च व्यभिचारनिश्चयस्यैव प्रतिबन्धकत्वभिति वाच्यं, लाघवाद् व्यभिचारज्ञानत्वेनैव व्याप्तिधीविरोधित्वसम्भवाद् इति चेत्, न, कार्यत्वेन कृतित्वेन कार्यकारणभावरूपस्यानुकूलतर्कस्यात्रापि सत्वेन कार्यत्वरूपहेतोः कृतिजन्यत्वव्याप्यत्वनिर्णयेन कृतिजन्यत्वव्याप्य. कार्यत्वरूपसाधनाव्यापकत्वेन हेतुना शरीरजन्यत्वरूपोपाधौ कृतिजन्यत्वरूपसाध्याव्यापकत्वानुमाननिश्चयात् इति, अनु. कूलतर्कानवतार एव सन्दिग्धोपाधेय॑भिचारसंशयाधायकत्वात् , अन्यथा पक्षेतरत्वोपाधिशङ्कया प्रसिद्धानुमानस्याप्युच्छेदप्रसङ्गादित्येके । परे तु स्वोपादानगोचरा स्वजनकाऽहष्टाऽजनिका या कृतिस्तदजन्यं समवेतं जन्यं खोपादानगोचरखजनकादृष्टजनकान्यापरोक्षज्ञानचिकीर्षाजन्यम् , कार्यत्वात् । घटादावंशतः सिद्धसाधनवारणाय तदजन्यान्तम् , तादृशकतिजन्यं यत् यत्स्वं तद्भिन्नत्वं तदर्थः, नातो घणुकादेरुपादा