________________
... श्लोक सर्वेषां कार्य सिद्धिः स्याविरुद्धार्थाभिधायिनाम् ॥ विरोधान्नोभयकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिनांवाच्यमिति युज्यते ॥ भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः। बहिःप्रमेयापेक्षायां प्रमाणं तनिभं च ते ॥ जीवशदः स बाह्यार्थः संज्ञात्वाद्धेतुशद्ववत् । मायादिम्रान्तिसंज्ञाश्च मायाद्यैः स्वैः प्रमोक्तिवत् ! बुद्धिशद्वार्थसंज्ञास्तास्तिस्रो बुद्धयादिवाचकाः । तुल्या बुद्धयादिबोधाश्च त्रशस्तत्प्रतिबिम्बिकाः ॥ वक्तुश्रोतृप्रमातृणां बोधवाक्यप्रमाः पृथक् । भ्रान्तावेव प्रमाभ्रान्तौ बाह्यार्थी तादृशेतरौ ॥ बुद्धिशद्वप्रमाणत्वं बह्याथै सति नासति । सत्यानृतव्यवस्थैवं युज्यतेऽर्थाप्त्यनाप्तिषु ॥
अष्टम परिच्छेद दैवादेवार्थसिद्धिश्चेद्दवं पौरुषतः कथम् । दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत् ॥ पैरुषादेवसिद्धिश्चेत्पौरुषं दैवतः कथम् पोरुषाच्चेदमोधं स्यात्सर्वप्राणिषु पौरुषम् ॥ विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेप्पुक्तिर्नावाच्यमिति युज्यते ॥ अबुद्धि पूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥
नवम परिच्छेद पापं ध्रुवं परे दुःखात् पुण्यं च सुखतो यदि । अचेतना कषायौ च वध्येयातां निमित्ततः ॥ पुण्यं ध्रुवं स्वतो दुःखात् पापं च सुखतो यदि । वीतरागो मुनिर्विद्वाँस्ताम्यां युझ्यानिमित्ततः ॥ विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।