________________
श्लोक एकत्वेन्यतराभावः शेषाभावोऽविनाभुवः । द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृषैव सा ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽपुक्तिर्नावाच्यामिति युज्यते ॥ द्रव्यपर्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥ संज्ञासंख्याविशेषाच्च स्वलक्षणविशेषतः । प्रयोजनादिभेदाच तन्ननात्वं न सर्वथा ॥
पंचम परिच्छेद यद्यापेक्षिकसिद्धः स्यानद्वयं व्यवतिष्ठते । अनापेक्षिकसिद्धौ च न सामान्यविशेषता ॥ विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥ धर्मधर्म्यविनाभावसिद्धत्यन्योन्यवीक्षया । न स्वरूपं स्वतो ह्येतत् कारकज्ञापकाङ्गवत् ॥
षष्ठ परिच्छेद सिद्धं चेद्धेतुतः सर्वं न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्व विरुद्धार्थमतान्यपि ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ वक्तर्यनाप्ते यद्धेतोः साध्यतद्धेतुसाधितम् । आप्तेवक्तरि तद्वाक्यात्साध्यमागमसाधितम् ॥
सप्तम परिच्छेद अन्तरंगार्थतैकांत बुद्धिवाक्यं मृषाखिलम् । प्रमाणाभासमेवास्तत्प्रमाणाहते कथं ॥ साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता। न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः . बहिरङ्गार्थतैकान्ते प्रमाणाभासनिहवात् ।