________________
श्लोक
अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ नित्यं तत्प्रत्यभिज्ञानानाकस्मात्तदविच्छिदा। क्षणिकं कालभेदात्ते बुद्धयसंचरदोषतः ॥ न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् । व्येत्युदेति विशेषात्ते सहैकत्रोदयादि सत् ॥ कार्योत्पादः क्षयो हेतुर्नियमाल्लक्षणात्पृथकू। न तो जात्यद्यवस्थानादनपेक्षाः खपुष्यवत् ॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोव्रतो न दध्यत्ति न पयोस्ति दधिव्रतः । अगोरसवतो नोभे तस्मात्तत्वं त्रयात्मकम् ।।
चतुर्थ परिच्छेद कार्यकारणनानात्वं गुणगुण्यन्यतापि च । सामान्यतद्वन्यत्वं चैकान्तेन यदीष्यते ॥ एकस्यानेकवृतिन भागाभावादहूनि वा। भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनाहते ॥ देशकालविशेषेऽपि स्याद्वृत्तिर्युतसिद्धवत् । समानदेशता न स्यान्मूर्तकारणकार्ययोः ॥ आश्रयाश्रयिभावान्न स्वातंत्र्यं समवायिनांम् । इत्ययुक्तः स संबंधो न युक्तः समवायिभिः ॥ सामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अंन्तरेणाश्रयं न स्यानाशोत्पादिषु को विधिः सर्वथानभिसम्बंधः सामान्यसमवाययोः । ताम्यामर्थो न सम्बन्धस्तानित्रीणि खपुष्पवत् ॥ अनन्यतैकान्तेणूनां संघातेऽपि विभागवत् । असंहतत्वं स्याद् भूतचतुष्कं भ्रान्तिरेव सा ॥ कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् । उभयाभावतस्तत्स्थं गुणजातीतरच न ॥