________________
( ७१ ) प्रमेयत्वादिसाधने वाच्यत्वादित्यादिः प्रथमः, पृथिव्यामितरभेदसाधने गन्धवत्त्वादित्यादि द्वितीयः, पर्वतादौ वह्नयादि साधने धूमादित्यादि स्तृतीय इति । दृष्टान्तकथनयोग्यावयव उदाहरणम्, अवयवान्तरार्थानन्वितार्थकावयवत्वञ्च योग्यतावच्छेदकम्, तच्च साधर्म्यवैधाभ्यां द्विधा, तत्र साध्यसाधनव्याप्त्युपदर्शकमुदाहरणं साधर्योदाहरणम् यथा यो यो धूमवान् स वह्निमान् यथा महानसम् इति, साध्यसाधनव्यतिरेकव्याप्त्युपदर्शकमुदाहरणं वैधयोदाहरणम् यथा यो न वह्निमान् स न धूमवान् यथाहूद इति । प्रकृतोदाहरणोपशितान्वय-व्यतिरेक व्याप्त्यन्यतरविशिष्टहेतुविशिष्ट पक्षविषयकबोधजनकोऽवयव उपनयः, सचान्वयि-व्यतिरेकिभेदाद् द्विविधा, तथाचायमित्युपसंहारः प्रथमः,न तथेत्युपसंहारोः द्वितीयः, प्रथमस्य वह्निव्याप्य धूमवाँश्चायं पर्वत इत्यर्थः, द्वितीयस्य वह्नयभावच्यापकीभूताभावप्रतियोगिधूमवाँश्चायं पर्वत इत्यर्थः । हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् व्यातिविशिष्ट पक्षधर्महेतुकथनपूर्वकसाध्यविशष्टपक्षप्रदर्शकः, प्याप्तपक्षधर्महेतुज्ञाप्यसाध्यविशिष्टपक्षबोधको वा न्यायावयबो निगमनम् तस्य तस्मात् तथेत्युपन्यासः वह्निव्याप्यधूमवत्त्वात् पर्वतो वह्निमानिति तदर्थः : पञ्चेति कथनाद् दशावयवादव्युदासः, तस्मिन् वादे, प्रतिज्ञादिपञ्चकसहिताः प्रयोजन-जिज्ञासा-संशय-शक्यप्राप्ति-संशयव्युदासाः पञ्चदर्शिताः, तत्र प्रयोजनं हानादिबुध्दयः, तत् प्रवत्तिका जिज्ञासा, तज्जनकः संशयः शकय प्राप्तिः प्रमाणानां ज्ञानजननसामर्थ्य, संशयव्युदासस्तर्क इति, एतेषां न्यायाघटकत्वान्न न्यायावयवत्वमिति बोध्यम् ।