________________
( ७२ )
"
हस्तु तर्कः पञ्चविधः स्मृत इति, यः खलु व्यापकाभाववत्तया निर्णीते धर्मिणि व्याप्यारोपेण व्यापकारोपात्मक ऊह सः तर्कः, अथवा त्वं मानसत्वव्याप्यजातिविशेषस्तर्कयामीत्यनुभवसिद्धः, तदेव तर्कस्य लक्षणम्, यथा पर्वतो यदि निर्दह्निः स्यान्निधूमः स्यादिति, अत्र निर्धूमत्वं निर्वंह्नित्वव्यापकं तदभावो धूमस्तद्वत् तया निश्चिते पर्वते निर्वह्नित्वारोपान्निर्धूमत्वारोप इति । अयञ्च तर्कोविषयपरिशोधकः क्वचिद वह्नविनाऽपिघूमो भविष्यतीतिव्यभिचारशङ्कानिवत्र्त्तकस्तु धूमो यदि वह्निव्यभिचारीस्याद वह्निजन्यो न स्यादित्येवं न रूपस्तर्कः । अस्यैव व्यभिचारशङ्का निवर्तकत्वेन व्याप्तिग्रहेऽपेक्षा, यत्र तु व्यभिचारशङ्का नोदेति न तत्र तर्कापेक्षेति, स चायं आत्माश्रयान्योन्याश्रयचक्रकानवस्था. तदन्यबाधितार्थप्रसङ्गभेदेन पञ्चविधः पञ्चप्रकारः स्मृतः, तत्र स्वस् स्वापेक्षित्वेऽनिष्टप्रसङ्ग आत्माश्रयः, स चोत्पत्ति स्थितिज्ञप्तिद्वारा त्रेधा, यथा यद्ययं घटएतद् घटवृत्तिः स्यात् तदेतद् घटानधिकरणक्षणोत्तरवर्त्ती न स्यात्, यद्ययं घटएतद्घटवृत्तिः स्यादेतद् घटव्याप्यो न स्यात्, यद्ययं घटएतद् घटज्ञानाभिन्नः स्यात् ज्ञानसामग्रीजन्यः स्यात्, एतद् घटभिन्नः स्यादिति वा सर्वत्रापाद्यम्, तदपेक्ष्यापेक्षित्वनिबन्धनोऽनिष्टप्रसङ्गोऽन्योन्याश्रयः, सोऽपि पूर्ववत् त्रैविध्यम् । अव्यवस्थित परम्परारोपाधीनानीष्टप्रसङ्गोऽनवस्था, यदि घटत्वं घटजन्यत्वव्याप्यं स्यात्कपालसमवेतत्वव्याप्यं न स्या दिति, तदन्य बाधितार्थ प्रसङ्गस्तु धूमो यदि वह्निव्यभीचारीस्याद् वह्निजन्यो न स्यादित्यादिः । प्रथमोपस्थितत्वोत्सर्गविनिगमना विरहलाघवगौरवादिकन्तु प्रसङ्गानात्मकत्वान्न तर्कः, किन्तु
,