________________
( ७० ) " यत् सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः" इति अधिकरणसिद्धान्तस्वरूपावेदकं सूत्रमित्थं व्याख्यातं वृत्तिकृता'यस्पार्थस्यसिद्धौ जायमानायामेवान्यस्य प्रकरणस्य प्रस्तुतस्य सिद्धिर्भवति सोऽधिकरणसिद्धान्त इत्यर्थः, यथा तद् द्वयणुकादिक पक्षी कृत्योपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमन्जन्यत्वे साध्यमा सर्वज्ञत्वमीशस्य, एवं हेतुबलादपि यथा दर्शन-स्पर्शनाभ्यामेकार्थग्रहणादिन्द्रियादिव्यतिरिक्त आत्मनि साधिते इन्द्रियनानात्वम्, तथा च यदर्थसिद्धि विना योऽर्थः शब्दादनुमानाद् वा न सिध्यति सोऽधिकरणसिद्धान्तः' इत्यादि ।
साक्षादसूत्रिताभ्युपगमोऽभ्युपगमसिद्धान्तः, यथा मनस इन्द्रियत्वमिति । अवयवाः पञ्चेति, प्रतिज्ञाद्यन्यतमत्वमवयव सामान्यलक्षणम्, उक्तलक्षणलक्षिता अवयवाः प्रतिज्ञाहेतूदाहरणोपनयनिगमनवारणाय न्यायानन्तर्गततादृशवाकयवारणाय च न्यायान्तर्गतत्वे सति प्रकृतपक्षतावच्छेदकावच्छिन्नपक्षकप्रकृतसाध्यतावच्छेदकावच्छिन्नसाध्यविषयताविलक्षणविषयताकबोधाजनकत्वे सति प्रकृतपक्षे प्रकृतसाध्यबोधजनकवाकयत्वं प्रतिज्ञात्वम्, यथा पर्वतो वह्निमानिति प्रतिज्ञा । साध्यसाधनं तृतीयान्तं पञ्चम्यन्तं वा हेतुवाक्यं हेतुः, तस्य साध्यतावच्छेदकावच्छिन्न साध्यान्वितज्ञापकत्वबोधकोऽवयवोहेतुरित्यत्र पर्यवसानं, सचोदाहरणसाधयंत दुवैधर्म्य-तद्वयतविधा, तत्र ज्ञातान्वयव्याप्तिमात्रकहेतुबोधको हेत्ववयवः प्रथमः, ज्ञातव्यतिरेकव्याप्तिमात्रकहेतुबोधको हेत्ववयवो द्वितीयः, ज्ञातान्वयव्यतिरेकव्याप्तिकहेत्ववयवस्तृतीयः, घटादौ