________________
दर्शने सति संशयो न भवतीति सिशेषादर्शनमपि संशयकारणम्, तदिदमभिप्रेत्येदं सूत्रम्___"समानानेकविधधर्मोपपत्ते विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्चविशेषापेक्षोविमर्शः संशयः' इति । द्वधा प्रयोजनमिति 'यमर्थमधिकृत्यप्रवर्त्तते तत् प्रयोजनमिति सूत्रानुसारेणप्रवृत्तिहेत्विच्छाविषयत्वं मुख्यप्रजोजनत्वं तद्वत्त्वात् सुखं दुःखाभावश्च मुख्यप्रयोजनम् अन्येच्छाधीनेच्छाविषयत्वं गौणप्रयोजत्वं तद्वत्त्वात् सुखदुःखाभावोगौणप्रयोजनम् । द्विधा दृष्टान्त आदिष्ट इति, वादिप्रतिवादिनोः साध्यसाधनोभयप्रकारक-तद्भावद्वयप्रकारकान्यतरनिश्चयविषयो दृष्टान्तः, स द्विधा साधर्म्यदृष्टान्तोवैधय॑दृष्टान्तश्च, तत्र वादिप्रतिवादिनोः साध्यसाधनोभयप्रकारकनिश्चयविषयः साधर्म्यदृष्टान्तः यथा पर्वतोवह्निमान् धूमादित्यादौ महानसम्, वादिप्रतिवादिनोः साध्याभाव-साधनाभावोभयप्रकारकनिश्चयविषयोवैधर्म्य दृष्टान्तः, यथा तत्रैवह्रदः, इति नैयायिकरादिष्ट उक्तः । सिद्धान्ता स्युश्चतुर्विधाः इति शास्रितार्थनिश्चयत्वंसिद्धान्त. सामान्यलक्षणं, भाष्ये अभ्युपगम्यमानोऽर्थः सिद्धान्त इति, वात्तिकतात्पर्यटोकायां अभ्युपगमः सिद्धान्त इति, तयो विरोधापहारकमदयनाचार्यवचनं यथा 'अर्थाभ्युपगमो गुणप्रधानभावस्य विवक्षातन्त्रत्वादाभ्युपगमोऽभ्युपगम्यमानो वाऽर्थसिद्धान्तः' इति, व्यक्तयभिप्रायेण सिद्धान्ता इति बहुवचनम्, ते सर्वतन्त्र-परतन्त्रा. धिकरणा-भ्युपगमसिद्धान्तभेदेन चतुर्विधाः स्युः चतुःप्रकाराःस्युः । तत्र सर्वतन्त्राविरुद्धतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्र सिद्धान्तः। समानतन्त्रसिद्ध इत्यस्य स्वतन्त्रसिद्ध इत्यर्थः ।