________________
( ६८ ) त्वमितिलक्षणं ज्ञेयम् । प्रेत्यमत्वाभावो जननं प्रेत्यभाव इति व्युत्पत्त्या पुनरुत्पत्तिः प्रेत्यभावः, अपश्चानादिरपवर्गान्तः, एतज्ज्ञानं वैराग्ये उपयुज्यते । तदीय मरणश्च तदीयजीवनादृष्टनाशस्तबीयश्वरमप्राणसंयोगध्वंसस्तदीयप्राणध्वंसो वा, तदीयोत्पत्तिस्तु तदीयविजातीयशरीराद्यप्राणसंयोग इति । रागद्वेषमोहात्मकदोषजन्यधर्माधर्मात्मकप्रवृतिजन्यसुखदुःखान्यतर साक्षात्कारो मुख्यं फलम्, तच्च देहेन्द्रियबुद्धिषु सतीषु भवतीति देहेन्द्रियादिकं गौणं फलं, प्रवृत्तिदोषजनितत्वादत्र निर्वेदः।
बाधनालक्षणं दुःखं, बाधनापीडातदेवलक्षणं स्वरूपं यस्येति व्युत्पत्तिः, अनभवसिद्धदुःखत्वजातिमत्त्व तस्य लक्षणम्, शरीरेन्द्रियार्थेषु दुःखसाधनत्वात् सुखे च दुखानुषङ्गाद् दुःखव्यवहारो गौणः । दुःखात्यन्तविमोक्षोऽपवर्गः । दुःखात्यन्तविमोक्षो नाम स्वसमानाधिकरणदुःखासमानकालीनोदुःखध्वंस इति। सिद्धप्रमेयाद्वादशवत्विति । संशयोहेतुभेदेन भिन्न इति, एकस्मिन् मिणि विरोधेन भावाभावप्रकारकं विरुद्ध नानाधर्मप्रकारकं वा ज्ञानं संशयः, सच स्वरूपतोऽभिन्नऽपिहेतुभेदेन कारणभेदेन भिन्नः, एको. विरुद्धकोटिद्वयसहचरितधर्मलक्षणसाधारणधर्मवमिज्ञानजन्यः, द्वितीयो विरुद्धकोटिद्वयासहचरितधर्मलक्षणासाधारणधर्मवर्मिज्ञानजन्यः, संशयः परोक्षो न भवति अनुमानादीनां निर्णयैकजनकत्वस्वाभाव्यादिति विप्रतिपत्तिवाक्यात् कोटिद्वयोपस्थित्यामानस एव संशयः, एवं ज्ञाने प्रामाण्यसंशयाद्विषयसंशयः, ज्ञानेऽप्रमाण्यसंशयाविषयसंशयः, व्याप्यसन्देहाद व्यापकसंशय इति विशेष