________________
( ६७ ) योनिजम्, जलीयादिशरीराणित्वयोनिजान्येवेति । घ्राणरसनचक्षुस्त्वक्ोत्राणि बहिरिन्द्रियाणि भौतिकानि । इन्द्रियत्वं शब्दतरोभूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वम्, कर्णशष्कुल्यवच्छिन्ना काशलक्षणश्रोत्रस्य कर्णशष्कुल्याजन्यत्वादेव जन्यत्वम्, अत्र पृथिव्यापस्तेजोवाय्वाकाशानि पञ्चभूतानि भूतत्वञ्च बहिन्द्रियग्रहणयोग्यविशेषगुणवत्त्वम्, पृथिवीत्वादयश्चत्वारो जाति विशेषाः, गन्ध-शीतोष्णानुष्णाशीतस्पर्शविशेषसमवायिकारणतावच्छेदकतया सिद्धाः, आकाशत्वन्त्वेकव्यक्तिवृत्तित्वान्नजाति, किन्तु शब्दाश्रयत्वम् । सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः, तस्था जानामीत्यनुभवसिद्धज्ञानत्वजतिमत्वं लक्षणम्, बुद्धिः प्रकृतेः परिणामो महत् तत्त्वं तस्या घटाद्याकारपरिणामो ज्ञानं तेन सहकूटस्थनित्यस्यात्मनः सम्बन्ध आरोपित उपलब्धिरिति साहूमत - प्रतिक्षेपकम् 'बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्' इति सूत्रम्, सुखाद्युपलब्धिसाधनमिन्द्रियं मनः, चक्षुरादिषुविषयसम्बद्धे ष्वपि - यस्य सम्बन्धादेकं ज्ञानं जनयति यदसम्बन्धादपरं ज्ञानं न जनयति तदेव चाणुनिखिलज्ञानजनकं सुखादिसाक्षात्कारासाधारणकारणं लाघवादेकमेव मनः । तदुक्तम् 'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् इति । प्रवृत्ति र्यत्नविशेषः, रागजन्यतावच्छेदकजातिविशेषः प्रवृत्तित्वं तल्लक्षणम्, साच वाग् - बुद्धि-शरीरम्भभेदेन त्रिविधा, तत्र वचनानुकूलो यत्नो वागारम्भः, शरीरगोचरोयत्नश्चेष्टानुकूलो वा शरीरारम्भः, तदुभयभिन्नो यत्नो बुद्धारम्भ इति, रागद्वेषमोहा दोषाः, सविषयलौकिकप्रत्यक्षविषयत्वे सति प्रवृत्तिजनकत्वं दोष