________________
कर्षजन्यं ज्ञानं लौकिकप्रत्यक्षन्, सामान्यलक्षणा-ज्ञानलक्षणायोगजभेदेनालौकिकसन्निकर्षविविधः, तत्र चक्षुरादिना लौकिकसन्नि. कर्षेण यत् किश्चद घटप्रत्यक्षानन्तरं घटत्वेन सकलघट प्रत्यक्ष घटत्वादिलक्षणसामान्यप्रत्त्यासत्तिजन्यम्, चक्षुरिन्द्रियेण चन्दनप्रत्यक्षे सन्निकृष्टे वा चन्दने घ्राणेन्द्रियेण स्मृत्यादिना वा गन्धोपस्थितौ सुरभिचन्दनमिति चाक्षुषं भवति, तत्र सौरभमानं सौरभज्ञानलक्षणसन्निकर्षण, एवमन्यत्रापि, युक्तयुञ्जानभेदेन द्विविधस्य योगिनः सर्वपदार्थ ज्ञानं योगाभ्यासजनितधर्मविशेषलक्षणयोगजप्रत्यासत्त्येति, षड्विधेन्द्रियसन्निकर्षजन्यत्वात् प्रत्यक्षमपि षड्विधम्, तत् करणमिन्द्रियं प्रत्यक्षप्रमाणम्, परामर्शद्वाराव्याप्तिज्ञानजन्यं ज्ञानमनुमितिः, यत्र यत्र धूमस्तत्र वह्निरिति साहचर्यानिमयो व्याप्तिः, तज्ज्ञानं वह्निव्याप्यो धूमः इति, साध्यव्याप्यहेतोः पक्षण सह वैशिष्टयावगाहि ज्ञानं परामर्शः, यथा वह्निव्याप्यधूमवान् पर्वत इति वह्निव्याप्यधूमः पर्वते इति च ज्ञानं परामर्शः, ततः पक्षोद्देश्यकसाध्यविधेयकज्ञानमनुमितिः, यथा पर्वतोवह्निमानिति पर्वते वह्निरिति वा ज्ञानमनुमितिरिति, व्याप्तिज्ञानस्य प्रत्यक्षरूपत्वात् सहचारदर्शनरूपप्रत्यक्षजन्यत्वाद्वा प्रत्यक्षपूर्वकत्वम्, पूर्ववच्छेषवत् सामान्यतो दृष्टभेदेन चानुमिते वैविध्यम्, तत्र करणलिङ्गक पूर्ववत्, कार्यलिङ्गक शेषवत्, कार्यकारणाभिन्नलिङ्गकं सामान्यतो दृष्टमिति, निरुक्तानुमितिकरणमनुमानम् । प्रत्यक्षस्य निर्विकल्पक-सविकल्पकभेदेन द्वैविध्यम्, तद्भिन्नमनुमित्यादिकं सर्व सविकल्पकमेवेति । अतिदेशवाक्यार्थस्मृतिद्वारा