________________
( ६३ ) द्विधादृष्टात आदिष्टः सिद्धान्ताः स्यु श्चतुर्विधाः ।
__ अवयवाः पञ्चोहस्तु तर्कः पञ्चविधः स्मृतः ॥३॥ निर्णयोवादजल्पाभ्यां वितण्डेति कथात्रयम् ।
हेत्वाभासाः पञ्च ज्ञेयाः छलं च त्रिविधं मतम् ॥४॥ चतुविंशतिभेदाःस्युतियोऽन्यानियानि तु ।
निग्रहस्थानसंज्ञानि द्वाविंशतिमितानि वै ॥५॥ इह न्यायदर्शने, प्रमितिकरणत्वं प्रमाणसामान्यलणम्, तद्घटक प्रमितेश्च यथार्थानुभवत्वं लक्षणम्, स्मृतिकरस्यानुभवस्य पञ्चमप्रमाणत्वापत्तिभिया निरुक्तप्रमितिलक्षणेऽनुभवत्वं निवेशितम्, उक्तञ्चोदयनाचार्येणअव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदिक् ।
यथार्थानुभवो मानमनपेक्षतयेष्यते ॥१॥' इति, प्रमितिश्च प्रत्यक्षानुमित्युपमिति शाब्दबोधेन चतुविधा, तत्रेन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्, ईश्वरप्रत्यक्षन्तु नात्र लक्ष्यं नित्यस्य तस्य करणाभावात्, तत् साधारणं तु ज्ञानाकरणकज्ञानत्वं प्रत्यक्षसामान्यलक्षणम्, अत्र भ्रमात्मकप्रत्यक्षवारणायाव्यभिचारीति विशेषणं देयम्, सन्निकर्षश्च लौकिकालौकिक भेदेन द्विविधः, तत्र लौकिकसन्निकर्षः संयोग-संयुक्तसमवाय-संयुक्तसमवेत-समवायसमवाय-समवेतसमवाय-विशेष्यविशेषणभावभेदेन षड्विधः, तत्र प्रथमो द्रव्यप्रत्यक्षकारणं द्रव्यग्राहकेन्द्रियाणां चक्षुस्त्वम् मनसां भवति, द्वितीयतृतीयौ श्रोत्रभिन्नानां पञ्चानामपीन्द्रियाणां, चतुर्थपञ्चमौ श्रोत्रस्य, पष्ठश्च सर्वेषामपीन्द्रियाणां, लौकिकसन्नि