________________
( ६२ ) प्रयोजनयोर्मध्येऽभ्यहितस्य संशयस्य, ततः प्रयोजनस्य, ततः परप्रत्यायनमूलत्वेन दृष्टान्तस्य, दृष्टान्तमूलकोन्यायः सिद्धान्तविषय इति सिद्धान्तस्य, ततोऽवसरतः पञ्चावयवरूपस्य न्यायस्य, ततो न्यायेन सहैककार्यकारितया तर्कस्य, ततस्तजन्यतया निर्णयस्य, ततश्च तदनुकूलत्वाद्वादस्य, ततश्च वादकार्यनिर्णयकारित्वाजल्पस्य, ततो जल्पकार्यविजयानुकूलतया वितण्डायाः, कथात्रय. स्यापिदूषणसापेक्षतयाऽनन्तरं दूषणेषु निरूपणीयेषुवादे देशनीयत्वरूपोत्कर्षवत्वाद्ध तुवदाभासमानत्दाबादौ हेत्वाभासानां, ततश्च हेत्वाभासोपजीवनेन छलस्य, स्वव्याघातकत्वेनात्यन्तासदुत्तरत्वात् ततो जातेः, कथावसानत्वेनार्थादनन्तरं निग्रहस्थानानामिति, तत्त्वज्ञानान्मिथ्याज्ञाननाशः ततो रागद्वेषात्मकदोषाभावः, ततो धर्माधर्मात्मकप्रवृत्त्यभावः, ततो विशिष्टशरीरसम्बन्धलक्षणजन्माभाव स्ततो दुःखात्यन्ताभावात् तदात्मको मोक्ष इत्येवं षोडशपदार्थतत्वज्ञानस्य मोक्षप्रयोजनम्, एतदर्थकञ्च “दु खजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापायेतदनन्तरापायादपवर्गः" इति सूत्रम्, प्रमाणत्वप्रमेयत्वादीनामिन्द्रियादिषु सङ्कीर्णानां विभाजकत्वं यद्यपि न सम्भवति, सामान्यधर्मव्याप्यपरस्परविरुद्धनानाधर्मेणमिप्रतिपादनस्यविभागत्वात्, तथापि प्रमाणत्वादीनामसंकीर्णानां विभाजत्वं बोध्यम्" प्रमाणानीह चत्वारि प्रमेया द्वादशैव तु ।
संशयोहेतुभेदेन भिन्नो द्वेधा प्रयोजनम् ॥२॥