________________
( ६१ ) ॐ ॥ अथाहपाददर्शनम् ॥ येषां कर्ता महेशो विभुरखिलमतिर्देव इष्टोऽन्य एको, जीवाश्चानेक रूपा विभव उपगता वेद ईश प्रणीतः ॥ सर्वेषां मुक्तिभावे सति भवविलयः सर्वथा तन्मतस्य,
वक्ष्ये तत्वानि बालोपकृतिमतिरहं जैनबालः सुशीलः ॥१॥ प्रमाणादीनि तत्त्वानि गौतमोक्तानि षोडशः ॥
__ अन्यानि चाक्षपादीय नव्यैरिष्टानिकल्पकः ॥१॥ प्रमाणादीनोत्यत्रादिपदात् प्रमेयमारभ्यनिग्रहस्थानपर्यन्ताना. मुपग्रहः, गोतमोक्तानि गौतममुनिप्रणोतसूत्राभिहितानि, तच्च सूत्रम् "प्रमाण-प्रमेय-संशय-प्रयोजन दृष्टान्त-सिद्धान्ता-वयव-तर्कनिर्णयबाद-जल्प-वितण्डा-हेत्वाभास छल-जाति-निग्रहस्थानानां तत्त्वज्ञानानिःश्रेयसाधिगमः ॥१॥" इति, षोडश षोडशसंख्यकानि, अन्यानिच उक्तषोडशभिन्नानि प्रतियोगित्वविषयत्वतत्त्वादीनि सखण्डोपाध्यखण्धोपाधिरूपाणि च, आक्षपादीयः नैयायिकदेशीयः, नव्यः नवीनैः शिरोमणिप्रभृतिभिः, कल्पक: नवीनकल्पनाप्रवणः, इष्टान्यभ्युपगमनानि ॥
प्राचीनस्तु नाखण्डसखण्डोपाधीनामतिरिक्तत्वं किन्त्वधिकर. गादिस्वरूपत्वमेवेति, मोक्षजनकज्ञानविषयत्वेन प्रमेयस्यादौनिरूपणाहत्वेऽपि सकलपदार्थव्यवस्थापकत्वेन प्राधान्यत् प्रमाणस्य प्रथममुपन्यासस्ततोऽवसरतो बुभुत्सित प्रमेयस्य, ततः पदार्थव्यवस्थापकतया निरूपणीये न्याये तत् पूर्धाङ्गतयाऽभ्यहितयोः संशय