________________
( ६५ ) सादृश्यज्ञानजन्यं ज्ञानमुपमितिः, यथा गोसदृशो गवय इत्यतिदेशवाक्यं श्रुत्वा वनं गतस्य ग्रामीणस्य गोसदृशं पिण्डं पश्यतोऽयं गोसदृशमिति ज्ञानमुपजायते ततोऽतिदेशवास्मरणं ततो गवयो गवयपदवाच्यइति ज्ञानं भवति तदुपमितिस्तत्करणं गोसदृशोऽयमिति ज्ञानमुपमानम् । पदार्थोपस्थितिद्वारा आप्तोक्तशब्दज्ञानजन्यमन्वयज्ञानं शाब्दबोयः, शक्तिलक्षणान्यतरवृत्तिज्ञानसहकृताच्छब्दज्ञानात पदार्थोपस्थिति भवति, अम्मात् पदादयमर्थो बोद्धव्य इति इदं पदं वाऽमुमथं बोधयत्वितिवेश्वरसङ्कतः शक्तिः, शक्यसम्बन्धो लक्षणा, तत् प्रतिसन्धानं च तात्पर्यानुपपत्त्याऽन्वयानुपपत्त्या वा भवति, आसत्तिः योग्यताज्ञानमाकाङ्क्षाज्ञानं तात्पर्यज्ञानश्च शाब्दबोधे कारणं, पदार्थानामविलम्बेनोपस्थिति रासत्तिः, एकपदार्थेपरपदार्थवज्ञानं योग्यताज्ञानं, यत्पदार्थयोरन्वयबोधोऽपेक्षितस्तत्पदयोरव्यवहितपूर्वापरभावज्ञानमाकाङ्क्षाज्ञानम्, इदं पदमेतदर्थबोधेच्छयोच्चरितमितिज्ञानं तात्पर्यज्ञानमिति, निरुक्तसकलकारणसमवधानतो नीलो घट इत्यादिवाकयात् तादात्म्यसम्बन्धेन नीलप्रकारकघट विशेष्यकज्ञानादिरुपजायते स एव शाब्दबोधः, तत् करणमाप्तोक्त शब्दः प्राचीनमते शब्दप्रमाणं नवीनमते शब्दज्ञानं शब्दप्रमाणमिति।स शब्द तदुपजीविप्रमाणमात्रगम्यार्थकोऽदृष्टार्थकः, अदृष्टार्थकश्च वेद ईश्वरकर्तृकत्वात् पौरषेय एवेति, एवं चत्वारि प्रमाणानीति सिद्धम् । प्रमेयाद्वादशैवविति, संसारहेतुमिथ्याज्ञानविषयत्वं मोक्षहेतुधीविषयत्वंवा प्रमेयत्वं, न तु प्रमा विषयत्वं तेन संयोगादीनां प्रमेयत्वेन न ग्रहणं, एतदर्थाधिगत्यर्थमेव तु शब्दस्य