________________
( ५६ )
अत्रोपाध्यायानामित्थं स्वाभिप्रायप्रकटनम् - वयं तु ब्रूमः - अग्निरूपात्मके प्रकाशे संयोगंविनाऽपि यथा स्वतः प्रकाशत्वं तथा तथा चैतन्येऽपि प्रतिप्राणिपरानपेक्षताऽनुभूयमाने, अन्यथाऽनवस्थाव्यासङ्गानुपपत्त्यादिदोषप्रसङ्गात् परप्रकाशत्वं च तस्य क्षयोपशमदशायां प्रतिनियतविषयसम्बन्धाधीनम्, क्षायिक्यां च दशायां सदा तन् निरावरणस्वभावाधीनम्, तच्चैतन्यं रूपादिवत्सामान्य वदस्पन्दात्मकानुपादानकारणत्वेन गुण इति गुण्याश्रित एव स्यात्, यश्व तस्य गुणी स एवात्मा, निर्गुणत्वं च तस्य सांसारिकगुणाभावापेक्षयैव, अन्यथा स्वाभाविकानन्तगुणाधारत्वात्, बिम्बभूतचितो निर्लेपत्वाभ्युपगमे च तत्प्रतिबिम्बग्राहकत्वेन बुद्धौ प्रकाशस्यानुपपत्तिः बिम्बप्रतिबिम्बभावसम्बन्धस्य द्विष्ठत्वेन द्वयोरपि लेपकत्वतौल्यात्, उपचरितबिम्बत्वोपपादने चोपचरित सर्व विषयत्वाद्युपपादनमपि तुल्यमिति नयादेशविशेषपक्षपातमेतत्' इति ।
तदसङ्ख्येयावासनाभिश्चित्रमपिपरार्थं संहत्यकारित्वात् ॥२४॥ विशेषदर्शन आत्मभावभावनानिवृत्तिः ॥ २५ ॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ||२७|| हानमेषां क्लशवदुक्तम् ॥ २८ ॥ प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्याते धर्ममेघः समाधिः ॥ २६ ॥ ततः
शकर्म निवृत्तिः ॥३०॥ तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ||३१|| अत्रोपाध्याया:- "अयुक्तमेतत् ज्ञानस्य ज्ञेयांश एवावरणस्यावारकत्त्वात्, स्वरूपावरणेऽचैतन्यप्रसङ्गात्, ज्ञानानन्त्ये ज्ञेयानन्त्यस्यापि ध्रौव्यात्, उक्तं च 'सुक्तं चात्मपरात्मककर्तृ
-