________________
( ५८ ) सङ्गतत्वादेषामभावे तदभावः ॥११॥ अतीतानागतं स्वरूपतोऽस्त्य ध्वभेदाद् धर्माणाम् ॥ १२ ॥ अत्रोपाध्यायाः___ द्रव्यपर्यायात्मवाद्यत्रयसमावेशो युज्यते नान्यथा, निमित्त स्वरूपभेदस्य परेणाप्यवश्याश्रयणीयत्वात्, यथा चाभूत्वाभावाभावयोरपि पर्यायद्रव्यस्वरूपाभ्यां स्याद्वाद एव युक्तोज्यथा प्रतिनियतवचनव्यवहाराद्यन्यथानुपपत्तेरिति तु श्रद्ध गं सचेतसा' इति ते व्यक्तमूक्ष्मागुणात्मानः ॥१३॥ परिणामकत्वाद् वस्तुतत्वम् ॥ ॥१४॥ वस्तुसाम्येचित्तभेदात् तयोविभक्तः पन्थाः॥१५॥ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६ ॥ तदुपरागा. पेक्षित्वाच्चित्तस्य वस्तु ज्ञाता ज्ञातम् ॥१७॥ सदा ज्ञाताश्चित्तवृत्तयः तत् प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥ परिणामकत्वाद वस्तुतत्त्वमिति सूत्रे उपाध्यायाः___ 'एकानेकपरिणामस्याद्वादाभ्युपगमं विनादुःश्रद्धानमेतत्' इति ज्ञाताज्ञातत्वविमर्शे च जैनसिद्धान्तरहस्यावेदनमित्थम्-ज्ञानस्वरूपस्य चित्तस्यात्मनिर्धामतापरिणामः सदासन्निहितत्वेन तस्य सदा ज्ञातत्वेऽपिनानुपपन्नः, शब्दादीनां कादाचित्कसन्निधानेनैव व्यञ्जना वग्रहादिलक्षणेन ज्ञाताज्ञतत्वसम्भवात्, अत एव केवलज्ञाने शक्तिविशेषेण विषयाणां सदासन्निधानाद् ज्ञानावच्छेदकत्वेन तेषां सदा ज्ञातत्वमबाधितमिति तु पारमेश्वरप्रवचनप्रसिद्धः पन्थाः' इति ।
न तत्स्वाभासंदृश्यत्वात् ॥१६॥ एकसमयेचोभयानवधारणम् ॥२०॥ चित्तान्तरदृश्ये बुद्धिबुद्ध रतिप्रसङ्गः स्मृतिसङ्करश्च ॥२१॥ चितेरप्रतिसङ्गमायास्तदाकारपत्तौ स्वबुद्धिसंवेदनम् ॥२२॥ द्रष्टुदृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥