________________
( ५६ ) शुद्धिसाम्यस्यैवानुपपत्तेः, 'दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षानास्ति' इत्युक्ते नियुक्तिकत्वादात्मदर्शनप्रतिबन्धकस्यैव कर्मणः केवलज्ञानप्रतिबन्धकत्वेन तदपगमे तदुत्पत्ते रवर्जनीयत्वानिष्प्रयोजनस्यापि फलरूपस्य तस्य स्वस्वसामग्रीसिद्धत्वात्, न हि प्रयोजनक्षति भिया सामग्रीकार्य नार्जयतीति, तदिदमुक्तम्क्लेशपक्ति मतिज्ञानान्न किश्चिदपि केवलात् ।
तमः प्रचयनिःशेष-विशुद्धिप्रभवं हि तत् ।।१।.' इति, गुणविशेषजन्यत्वेऽप्यात्मदर्शनवनमुक्तौ तस्याव्यभिचारित्वं तुल्यम् वस्तुतो ज्ञानस्य सर्वविषयत्वं स्वभावः, छद्मस्थस्य च विचित्रज्ञानावरणेन स प्रतिबध्यत इति, निःशेष प्रतिबन्धकापगमे ज्ञाने सर्वविषयकत्वमावश्यकम्, तदुक्तम् - 'जो ज्ञेये कथमज्ञः स्यात् असति प्रतिबद्धरि।
दाह्येऽग्निर्दाहको न स्यात् कथमप्रतिबन्धक ॥१॥' इति एतेन 'विवेकजं सर्वविषयक ज्ञानमुत्पन्नमपि सत्त्वगुणत्वेन निवृत्ताधिकारायां प्रकृतौ प्रवोलयनानं नात्मानमभिस्पृशतीत्य त्माऽर्थशून्यनिर्विकल्पचिद्रूपएवमुक्तौ व्यवतिष्ठत' इत्यव्यपास्तम्, चित्त्वावच्छेदेनैव सर्वविषयकत्वस्वभावकल्पनादर्थशून्यायां चिति मानाभावात्, बिम्बरूपस्य चित्सामान्यस्याविवर्तस्य कल्पनेऽचित्सामान्यस्यापि तादृशस्य कल्पनापत्तेः, व्यवहारस्यबुद्धिविशेषधर्मरेवोपपत्तः, यदिचाचित्सामान्यनिष्ठएवाचिद्विवत्तः कलप्यते तदानुल्य यायाचिद्विवर्तोऽपि चित्सामान्यनिष्ठ एवाभ्युपगन्तुंयुक्तो, न तु विचिद्विवर्त्ताधिष्ठानमेव कल्पयितुं युक्तम्, नयादेशे सर्वत्रद्रव्ये